________________
३०४
कातन्त्रव्याकरणम्
सुगण्सु | कटोः पदान्तत्वात् प्राक्छेते, सुगण्छेते इति छत्वं स्यात् । सुगण्ट्त्साधुरिति । सस्तादिश्च || ५४।
५५. अनुस्वारस्य परो यवलेषु पदान्तस्यानुस्वारस्य यवलेषु परतो वा परवर्णा देशो भवति । सँय्यच्छति, संयच्छति । सँव्वदति, संवदति । सँल्लुनाति, संलुनाति । किव्वान्, किंवान् । पुँब्वत्, पुंवत् । कथं यय्यम्यते,वॅव्वम्यते ? तत्रान्तग्रहणस्य पदान्तार्थत्वात् ।आन्तरतम्यादादेशोऽयम् अनुनासिक एव अन्तस्थानामानुनासिक्यं छान्दसम् । चञ्चल इति रूढित्वादिति । वार्तिकं तु आन्तरतम्यविधेरन्यत्रेति लक्ष्यते । अनुनासिकादेशस्य यकारादेरानुनासिक्यं हि भाष्यादौ समर्थितम् । तन्त्रान्तरे तु आदेशविशेषणमिहानुनासिकोऽधिक्रियते ।।५५।
५६. हे मनयवलास्तेषु तेषु मनयवलेषु यो हकारस्तस्यानुस्वारस्य यथासंख्यं म-न-य-व-ला वा भवन्ति । सम्ह्मलयति, संह्मलयति । सन् हुते, संहृते । किँय् ह्यो भूतम्, किं ह्यो भूतम् । किँव्ह्वलयति, किं ह्वलयति । सन् लादते, संह्लादते ।। ५६।
५७. प्रथमस्य शषसेषु वा द्वितीयः प्रथमस्य शषसेषु वा द्वितीयो भवति । पदान्त इह नानुवर्तते । दृख्श्यामा, दृक्श्यामा । द्विठ्मण्डः, द्विट्षण्डः । तथ्याधुः, तत्साधुः । अफ्सीमा, अप्सीमा । भर्सनम्, भर्त्सनम् । अफ्सरा, अप्सरा ।। ५७।
५८. न ख्यात्रि x क ख्याञि परतो जिह्वामूलीयो न भवति । कः ख्यातः, कः ख्यायते | x क इति किम् ? कश्चख्यौ, निष्ठ्यानम् । इदमपाणिनीयमचान्द्रं च ।।५८।
५९. चाभ्यां सस्य शः चत्राभ्यां परस्य सस्य शो भवति । अच्शु, निशु, सनशु वाक्येषु ।। ५९।
६०. प्रशामष्टठयोर्णः प्रशामोऽन्तस्य टठयोः परयोर्णो भवति । प्रशाण्ढौकते, प्रशाण्ठकारीयति । तन्त्रेष्वदृष्टत्वात् 'प्रशान् टीकते' इति नस्थितिश्चिन्त्या ।।६०।