________________
३०५
कातन्त्रपरिशिष्टम्
६१. अश्चछयोः चछयोः परयोः प्रशामोऽन्तस्य ओ भवति । प्रशाञ्चित्रम्, प्रशाञ्छत्रम् ।।६१।
६२. समासेऽवश्यमः कृत्ये मस्य लोपः समासेऽवश्यमो मकारस्य कृत्यप्रत्यये परे लोपो भवति । अवश्यकर्तव्यम्, अवश्यकरणीयम्, अवश्यचेयम्, अवश्यकृत्यम्, अवश्यकार्यम्, अवश्यपचेलिमा माषा:, अवश्यगेयो वटुः । समास इति किम् ? अवश्यं करणीयम् । इह वाक्यमपीच्छन्ति | कृत्य इति किम् ? अवश्यंकारी । मयूरव्यंसकादित्वादेषु समासः ।। ६२ ।
६३. तुमः काममनसोः समासे काममनसोः परयोस्तुमो मस्य लोपो भवति । गन्तुकामः, गन्तुमनाः । समास इत्येव- गन्तुं कामोऽस्य ।। ६३ ।
६४. समश्च समश्च काममनसोः परयोर्मस्य लोपो भवति समासे । सम्यक् कामोऽस्य, सम्यङ् मनोऽस्य । सकामः, समनाः । केचिदिदं नाद्रियन्ते । तदसत् ।भाष्यादौ हि काममनसोः समो मलोपो नित्यः ।। ६४।
६५. हितततयोर्यणि यणि यौ हितततौ, तयोः परतः समो मस्य लोपो भवति । साहित्यम्, सातत्यम् । संहितसन्तताभ्यां यण्णेव नास्तीत्युक्त्वा भाष्ये प्रत्याख्यातमिदम् । इह तु लक्षसु संगृहीतार्थं वचनम् ।। ६५।
६६. तयोर्वा तयोहितततयोः परतः समो मस्य लोपो भवति वा । सहितम्, संहितम् । सततम्, संततम् ।।६६।
६७. वाऽस्य युड्योः पचि मांसस्य युडन्ते घअन्ते च पचि मांसस्याकारस्य लोपो भवति वा । मांस्पचनम्, मांसपचनम् । मांस्पाकः, मांसपाकः । कस्क आदित्वात् सश्रुतिरनयोरिति वर्णविवेकः । लोपस्यासिद्ध