________________
३०६
कातन्त्रव्याकरणम्
त्वान्न विसर्जनीय इति विमलसमीक्षा | मांपाकः इति केचित् । युङ्घञोरिति किम् ? मांसपाकः । कर्मण्यण् । न्यङ्क्वादित्वात् कत्वम् || ६७ ६८. हललाङ्गलयोरीषायाम्
अनयोरकारस्य ईषायां परतो लोपो भवति । ईषेर्मूर्धन्यान्ताद् युविषयेऽप्यप्रत्ययः । हलीषा, लाङ्गलीषा । यस्तु हलदन्तार्थस्तालव्यमध्य ईशाशब्दो न तस्येह ग्रहणम् | ‘हललाङ्गलमनसामीषायाम्' इति स्मृत्यन्तरे मनीषया सहैकवाक्यत्वात् । मनीषेति च धातुप्रदीप - धातुपारायणयोरीषगतौ इत्यस्योदाहरणम् || ६८ |
६९ ईषिते च मनसः
ईषायाम् ईषिते च मनसोऽकारस्य लोपो भवति । मनीषा, मनीषितम् || ६९ । ७०. अव्यक्तानुकरणस्यानेकस्वरस्यात इतौ
अव्यक्तस्यावर्णात्मनः शब्दस्यानुकरणम् अव्यक्तानुकरणम् । तस्यानेकस्वरस्यात इतौ परे लोपो भवति । पटिति, खलिति, तडिति । तिलतुलां यान्त्यगेन्द्रा युगान्ते । अव्यक्तेति किम् ? दृशमित्याह । अनेकस्वरस्येति किम् ? स्रदिति करोति । अत इति किम् ? खलं करोति । कथं 'मटदिति भङ्गुरतामवाप मध्यम्' इति, दान्तत्वात् ॥ ७० ॥ ७१. वा तस्यैवाभ्यस्तस्य
अभ्यस्तस्य द्विरुक्तस्यानेकस्वरस्याव्यक्तानुकरणस्येतौ परतोऽतस्तकारस्यैव लोपो भवति वा । पटत्पटेति, पटत्पटदिति । खलखलेति, खलखलदिति । 'स्मरानले वैरिणि मे कृशाङ्ग्या झलज्झलेति ज्वलितं किमङ्गैः' । एवेति विकल्पपक्षेऽद्भागलोपनिवृत्त्यर्थम् | तडत्तडिति, रणद्रणिति । समुदायानुकरणं न तु द्विर्वचनमिहेति । अत इत्येव 'चुटुच्चुटुत्' इति करोति । इताविति किम् ? खलखलत् करोति ॥ ७१ ॥
७२. धाञ्नद्धयोरपेरुपसर्गस्यादेः
धाञ्धातौ नद्धे च परतोऽपेरुपसर्गस्यादेर्लोपो भवति वा । पिदधाति, अपिदधाति । पिधाय, अपिधाय । पिहितम्, अपिहितम् । पिधानम्, अपिधानम्, पिनद्धम्, अपिनद्धम् । ‘धाञ्नहोः' इत्येके पठन्ति । पिना, अपिनह्य । तथा च ' वितत्य शार्द्धं कवचं पिनह्य' इति भट्रिटः। उपसर्गस्येति किम् ? सुरामपिधास्यसि, अपिनद्धोऽसि वृषलेन । गर्हायामपेरुपसर्गत्वं नास्ति । आदिग्रहणमुत्तरार्थं च || ७२ ।