________________
कातन्त्र परिशिष्टम्
३०७
७३. अवस्य तंसे
तंसे परतोऽवस्यादेर्लोपो भवति वा । वतंसः, अवतंसः । तरतावपीच्छन्ति - वतरति, अवतरति ॥७३॥
७४. उदः स्थास्तन्भोः
उदः परयोःस्थास्तन्भोरादिलोपो भवति । उत्थितम् उत्थाता, उत्थाय, उत्तभ्नाति, उत्तभ्यते ।‘उत्तम्भितोडुभिरतीवतरां शिरोभिः ' । ह्रस्वादर्हो व्यञ्जनस्येति तकारस्य द्वित्वे त्रितयसंयोगोऽपि । उत्थितः, उत्तभ्यते । उत्कन्दको नाम व्याधिरिति कन्दते रूपम् । पृषोदरादित्वाद् वा । ‘अभ्रवभ्रमभ्रां धुटि रलोपमिच्छन्त्येके' । आशिषि तिक्- अब्धिः, बब्धिः, मब्धिः । वभ्रमभ्रोर्यङ्लुक्चेत् - वावब्धिः, वावब्धः । मामब्धिः, मामब्धः ॥ ७४ ॥ ७५. यि यस्य व्यञ्जनाद् वा
व्यञ्जनात् परस्य यस्य यकारे लोपो भवति वा । आस्ये भवम् आस्यम्, आस्य्यम् । प्राण्यङ्ग्ङ्गत्वाद् यः हर्य क्लान्तौ च । हर्यते, हर्य्यते । व्यञ्जनादिति किम् ? शय्यते, पलाय्यते । व्यञ्जनादधुटामधुटि लोपो वेति पठन्त्येके, तदा अभ्रवभ्रमभ्राम्— अभ्यते, वभ्यते, मभ्यते ॥ ७५ ।
७६. धुटो धुट्येकवर्गे
व्यञ्जनात् परस्य धुटः समानवर्गे धुटि लोपो भवति वा । ऊर्जयतेः क्विप् ऊर्क्, ऊर्गायति, उर्गुगायते, ऊर्घातयति, ऊर्गघातयति । मृजेर्दिस्योः अमार्ट, अमार्डीनः, अमाईडीनः । भिन्तः, भिन्त्तः, अभिन्थाः, अभिन्त्थाः । रुन्धेः, रुन्द्धेः । पिण्डि, पिण्ड्ड्ढि । अर्देःक्तिः अर्त्तिः, अर्त्तिः । धुट इति किम् ? शार्ङ्गवलिकः, शाङ्गम् । धुटीति किम् ? शक्ना । एकवर्ग इति किम् ? तप्त । वर्ग इति किम् ? ईर्त्सति, भर्त्सनम् । व्यञ्जनादिति किम् ? भेत्ता, राद्वा ॥ ७६ ॥
७७. शषसेष्वघोषपरेषु विसर्जनीयस्य
I
कः
अघोषः परो येभ्यस्तेषु शषसेषु विसर्जनीयस्य लोपो भवति वा । कश्च्योतति, श्च्योतति । कतिप्, कः श्तिपूः । कष्ठीवति, कः ष्ठीवति । निस्फुरति, निःस्फुरति । स्फुरिस्फुल्योर्निर्निविभ्यः इति धात्वादेर्मूर्धन्यः । कस्फुलति, कः स्फुलति । कस्पृशति, कः स्पृशति । ‘यस्तोत्रख्यातवीर्यः' इति ।। ७७ ।