________________
कातन्त्रपरिशिष्टम्
२९७
श्रुतत्वाद् आभ्यां लोप्यावर्णस्य समासे इह न स्यात् । वृषलपुत्रौष्ठव्रणस्ते । नृप कन्यौतुकुलं पातु || २० |
२१. पदान्तस्य गोरोतोऽति प्रकृतिः
पदान्तस्य गोरोकारस्य अकारे परे प्रकृतिर्भवति वा समासे । गो अजिनम्, गोऽजिनम् । गो अग्रम्, गोऽग्रम् । तयोः समास इत्येव - हे चित्रगोऽजिनधरं पश्य । गोरिति किम् ? द्योऽर्द्धम् । पदान्तस्येति किम् ? राजगवः । अतीति किम् ? गवासनम् । गवीश्वरः ||२१|
२२. अब स्वरे
पदान्तस्य गोरोकारस्य स्वरे परे अवेत्यादेशो भवति वा समासे । गवाजिनम्, गोऽजिनम् | गवेष्टिः, गविष्टिः । गवेश्वरः, गवीश्वरः । गवोच्छ्वासः, गवुच्छ्वासः । गवोर्ध्वम्, गवुर्ध्वम् । गवक्ष, गवृक्षौ । गवैडकम्, गवेडकम् | कृतावोऽयं समाहारार्थं गवाश्वादौ पठ्यते । गवौदनम्, गवोदनम् । पदान्तत्वादसमासान्तत्वाच्च गव्यति, गव्यते ।। २२ ।
२३. नित्यमिन्द्रे
इन्द्रशब्दे परे गोरोकारस्य नित्यम् अवेत्यादेशो भवति । गवेन्द्रगुप्तः ।। २३ ।
गवेन्द्रः ।
२४. अक्षे नाम्येव
गोरोकारस्याक्षशब्दे परे संज्ञायामेव अवेत्यादेशो भवति । गवाक्षो जालकम् । गवाक्षो नाम कश्चित् । नाम्नीति किम् ? गोक्षम् । इहावधारणाद् विभाषापि बाध्यते ।। २४ ।
२५. प्रकृत्येतौ संबुद्ध्योद् वा
संबुद्धौ ओत् संबुद्ध्योत् । स इतौ परतो वा प्रकृत्या तिष्ठति । भानो इति, भानविति । संबुद्ध्योदिति किम् ? गवित्ययमाह । स्योदिति सिद्धे संबुद्धिग्रहणं स्पष्टार्थम् ||२५|
२६. उतोऽदद्रीचः
अदद्रीचः उकारस्य स्वरे परे प्रकृतिभवति वा । अमुमुईचा, अमुन्वीचा | अदमुईचा, अदन्वीचा । कैश्चिदिह विभाषा नाद्रियते । कैश्चिदिदं न पठ्यत एव ॥ २६ ॥