________________
२९६
कातन्त्रव्याकरणम्
तिष्ठ इति च स्यादेव । एवेऽनवधारणे इति काश्मीरिकाः पठन्ति | इवार्थ इति किम् ? 'इहेव वयं प्रवीराः' इति भाष्यम् । ममैव धनम्, सैव सक्, वपुरतनु तथैव संवर्मितम् । अपदोषतैव विगुणस्य गुण: । मिथ्यैव श्रीः श्रियम्मन्या । असम्भावनायामेवायं विधिरिति नैयासिकाः ।।१७।
१८. आङ्यादिष्टे आदेशरूपे आङि अर्वणस्य लोपो भवति । आ + इहि = एहि, अधेहि, तदेहि । आ + ऊढा= ओढा, ममोढा, सोढा । आ ऋक्षात् = अर्थात्, ममात् । आ + टुकारात् अल्कारात्, ममल्कारात् । अनादिष्टे लोपोऽनर्थकः इत्यादिष्ट एवावशिष्यते । आदिष्टग्रहणं लुप्तेऽपि यथा स्याद् इति । आ + एलयति = एलयति, अघलयति, ममेलयति । आ + ओणति = ओणति, ममोणति, सन्ध्योणति । आ + ओष्ठम् = ओष्ठम्, ममोष्ठम्, लेखोष्ठम् ।। १८।
१९. शकन्ध्यादिषु च शकन्धुप्रभृतिषु शब्देषु पूर्वस्यावर्णस्य लोपो भवति । शकानाम् अन्धुः शकन्धुः, सीमानम् अन्तति बनाति सीमन्तः केशविन्यासे । अन्यत्र सीमान्तः । कुलान्यटतीति कुलटा, पचायच् । रूढ्या भिक्षुकी असती चोच्यते । भाष्ये तु एत एवोदाहृताः । आकृतिगणत्वमपि नोक्तम् । अपरे तूदाहरन्ति- अटान् अवतीति अटवी अरण्ये समोऽर्थोऽस्येति समर्थः, अपृथगर्थः । प्रकृष्टावोष्ठावस्येति प्रोष्ठो नाम कश्चित् । प्रोष्ठोऽनड्वान्, प्रोष्ठी मत्स्यान्तरम् । प्रोष्ठपाठो नित्यार्थः।।
शकन्धुः केशविन्यासे सीमन्तः कुलटाऽटवी। एकार्थत्वे समर्थोऽपि प्रोष्ठो जातौ च नाम्नि च ॥ यत्त्वर्द्धशनमिच्छन्ति तन्न वृद्धैरुदाहृतम् । आकृत्याऽन्यदपि ज्ञेयं समास-मशनादयः॥१९।
२०. ओष्ठोत्वोः समासे वा 'ओष्ठ–ओतु' इत्येतयोः परयोः समासेऽवर्णस्य लोपो भवति वा । बिम्बोष्ठः, बिम्बौष्ठः । बडवोष्ठी, बडवौष्ठी | ग्रामोतुः, ग्रामौतुः । कन्योतुः, कन्यौतुः । अस्य ओष्ठः ओष्ठः, औष्ठः । आ ओष्ठाद् ओष्टम्, औष्ठम् । अनोष्ठ इति परत्वान्नञोऽक्षरविपर्ययः ।