________________
२९५
कातन्त्रपरिशिष्टम्
११. लुक् सवर्णवच्च ऋतृतोः परयोर्ककारस्य लुक् सवर्णवच्च कार्यं भवति । चकाराद् यथाप्राप्तं प्रकृतिश्च भवति । पितृणम्, पितॄणम्, पितृऋणम् । होल्लकारः, होलृकारः, होतृलृकारः । क्वचित् पदान्तविधिष्वपि स्थानिवदिति न तृतीयः । नित्यसमासे तु प्रकृतिर्नास्तीति रूपत्रयमेव । पितृच्छी, पितॄच्छी, पितृच्छी । पदान्तप्रकरणत्वात् पितॄन् ।।११।
१२. उपसर्गावर्णलोपो धातोरेदोतोः धातोरेदोतोः परयोरुपसर्गाणामवर्णस्य लोपो भवति । प्रेजते, परेजते । प्रोणति, परोणति । उपसर्गस्येति किम्? ममैलयति, सन्ध्यौणति | उपसर्गाणामधातोरसम्भवाद् धातुस्पष्टार्थम् । कथं प्रगतः एजकः प्रैजकः, प्रगतः ओणकः प्रौणकः? कर्तृयोगित्वेनानुपसर्गत्वात् ।। १२।
१३. इणेधत्योर्न अनयोः परयोरुपसर्गावर्णग्य लोपो न भवति । प्रैति, परैति, प्रैधते, परैधते । तिप्पाठः सुखार्थः ।।१३।
१४. नामधातोर्वा नामधातोरेदोतोः परयोरुपसर्गावर्णस्य लोपो भवति वा । प्रेणीयति, प्रैणीयति । एणीयति, ऐणीयति । प्रोजायते, प्रौजायते । प्रोङ्काम्यतीति नित्यम्, परत्वात् ।।१४।
१५. एषैष्ययोः प्रस्य एषैष्ययोः परतःप्रस्याकारस्य लोपो भवति वा प्रेषः,प्रेषः । प्रेष्यः,प्रैष्यो दासः। अन्यत्र प्रेषणम् । प्रेषयतीति नित्यम् (स्यात्) । एष्यग्रहेणन यपो ग्रहणं नेच्छन्ति । प्रेष्य गतः । इषेरिनन्तात् क्तो यप् । प्रस्येति किम् ? उपेषः, उपेष्यः ।।१५।
१६. ओमि च नित्यम् ओमि च परतो नित्यमवर्णस्य लोपो भवति । अद्योम् ब्रूमः, तदोम् ब्रूमः । ओमित्यभ्युपगमादिष्वव्ययम् ।।१६।
१७. एवे इवार्थे इवार्थोऽत्र सादृश्यमसम्भावना च । इवार्थे एवशब्दे परे नित्यम् अवर्णस्य लोपो भवति । चर्मेव रज्जुः । शालेव शाखा । तदद्येवाभूत, तत्तदेवाभूत् । बालेव गच्छ, मालेव