________________
२९४
कातन्त्रव्याकरणम्
५. ऋति धातोरुपसर्गस्य दीर्घः धातो:ति उपसर्गा देशस्थ दीर्घा भवति। अर्थादकारस्य । प्रार्छति, परार्छति । आयूर्वादर्तेरृणोतेश्च क्तौ- आर्तिः । कथम् अर्तिः ? गुरोरप्यः क्तिः । ततो विश्वार्तिः । सार्तिरित्येव स्यात् । अन्यथाऽऽङादेशत्वात् पूर्वलोपः स्यात् । धातोरिति किम् ? प्रर्षभः । नामोपनिपातिनो नोपसर्गत्वं चेत्, धातुग्रहणं सुखार्थम् । उपसर्गस्येति किम् ? अद्यर्छति ।।५।
६. नामधातोर्वा नाम्ना स्याद्यन्तेनारब्धो धातु मधातुः । तस्य ऋत्युपसर्गस्यादेशस्य वा दी? भवति । प्रार्षभीयति, प्रर्षभीयति । आर्जूयते, अर्जूयते ।। ६।
७. लृति वा नामधातोर्तृत्युपसर्गादेशस्य वा दीर्घो भवति । प्राल्कारीयति, प्रल्कारीयति । वेत्युत्तस्त्र नित्यार्थम् ।।७।
८. ऋणप्रवसनवत्सतरकम्बलदशानामृणे ऋणे परे एषामादेशस्य दीर्घो भवति । ऋणार्णम्, प्रार्णम्, वसनार्णम्, वत्सतरार्णम् । वत्सतरमनादृत्य वत्सरश्चान्द्रकाशिकादौ पठ्यते । तदिहासम्मतम्, पतञ्जलि- शाकटायनादीनां वत्सतरस्यैवेष्टत्वात् । तथा च तरप्रत्ययोऽत्र भाष्यादावुक्तः । कम्बलार्णम्, दशार्णम्, दशार्णो देशः, दशार्णा नदी | ऋणं जलदुर्गेऽप्युच्यते ।। ८।
९. ऋतेऽरस्तृतीयासमासे तृतीयायाः समासे ऋतशब्दे परेऽरादेशस्य दी| भवति । शीतार्तः, तृष्णार्तः । अश्वेन ऋतो गतो वा अश्वार्तः इति च । अर इति किम् ? गवृतम् । तृतीयेति किम् ? ग्रामे ऋतः ग्रामतः । समास इति किम् ? तृष्णयतः। आर्तशब्दो न ऋतार्थः । ऋते चानिष्टं स्यादित्यारम्भः । यत्रायमृति दीर्घस्तत्र प्रकृतिर्नेष्यते ।। ९ ।
१०. ऋतो रलावृलुतोः ऋतृतोः परयोर्ककारस्य रलौ भवतो यथासंख्यम् । पितृणम्, होल्तृतकः । कश्चिद् रलावादिश्य परयोर्दीर्घमाह-होवृक्षः (पिवृक्षः, पिकारः) होल्टुकारः ।।१०।