________________
॥श्रीः॥ परिशिष्टम् - १ आचार्यश्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम्
सन्धिप्रकरणम्
नमो गणेशाय। संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा । विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम् ॥
१. वृद्धिरादेशस्य आदेशस्य वृद्धिर्भवतीत्यधिक्रियते । प्राग् वृद्धिग्रहणं मङ्गलार्थम् ।। १ ।
२. स्वस्येरेरिणोः ई रेरिणोः परयोः स्वशब्दादेशस्य वृद्धिर्भवति । स्वैरम्, स्वैरी |स्वैराद् गुणमात्रादिना सिद्धे ईरिग्रहणमीरिण्येत्वश्रुतिनिवृत्त्यर्थम् ।।२।
३. अक्षस्योहिन्याम् ऊहिन्याम् परतोऽक्षशब्दादेशस्य वृद्धिर्भवति । अक्षौहिणी । “पूर्वपदस्थाद्" (कात०परि० - ण०२) इति णत्वम् ।।३।
४. प्रस्योढोढ्योश्च द्वन्द्वेऽग्नेः पूर्ववत्त्वमनित्यम्, कालव्रीह्योरिति निर्देशात् । 'ऊढ-ऊढि' इत्येतयोः परयोः प्रशब्दादेशस्य वृद्धिर्भवति । प्रौढः, प्रौढिः । ऊहेऽपि शाकटायनस्य' – प्रौहः। प्रौढिशब्दादर्शआदित्वादति कृते 'प्रौढो भावः' इति क्तार्थावगमो न स्याद् इत्यूढग्रहणम् । कथं 'प्रौढो भारः, प्रोढी रथानाम्' ? आपूर्वेण स्यात् ।।४।