Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३१५
कातन्त्रपरिशिष्टम्
११२. समः कृञ्यस्वार्थे स्वस्मादर्थान्तरे वर्तमाने कृञि समः परः सुट् परादिर्भवति । पदानि संस्कुरुते, व्युत्पादयतीत्यर्थः । लवणेन संस्कुरते व्यञ्जनम् । प्रकर्षयतीत्यर्थः । अस्वार्थ इति किम् ? संकृतिः । कृञत्र स्वार्थ एव समा विशिष्यते ।। ११२ ।
११३. पर्युपात् समूहे परेरुपाच्च समूहेऽर्थे वर्तमाने कृञि सुट् परादिर्भवति । उपस्कृतं रथानाम् । परिष्कृतं रथानाम् । समूह इत्यर्थः । संस्कृतं रथानामिति समूहे पूर्वेण ।। ११३ ।
११४. उपात् प्रतियत्नविकृत्यध्याहारेषु एष्वर्थेषु कृजि उपात् सुट् परादिर्भवति । उत्कर्षाधानं प्रतियत्नः । केशानामुपस्कुरुते । स्वरूपान्यथात्वं विकृतिः। उपस्कृतान्यङ्गानि मुमूर्षोः। गम्यमानार्थस्य कस्यचिदेकदेशस्य स्वरूपेणोपादानमध्याहारः। उपस्कृत्य व्याचष्टे || ११४।
११५. किरिच्छेदे छेदविषये किरतावुपात् सुट् परादिर्भवति ।उपस्किरति व्रीहीन् छेत्तुम्, उपस्कारं व्रीहयो दायन्ते, विक्षिप्येत्यर्थः । इह क्वार्थे णम् इष्यते ।। ११५ |
११६. प्रतेश्च हिंसार्थे हिंसाथै किरतौ प्रतेरुपाच्च सुट् परादिर्भवति । चौरं प्रतिस्किरति । 'उरोविदारं प्रतिचस्करे नखैः' (शिशु०१/४७) । व्यालानुपस्किरति, ‘अरीनुपस्कर्तुमयं ममोद्यमः' ।। ११६।
११७. अपाच्चतुष्पाच्छकुनिषु हृष्टभक्षनिवासार्थिवालेखने हृष्टेषु भक्षार्थिषु निवासार्थिषु च कर्तृषु चतुष्पाच्छकुनिष्वालेखने वर्तमाने किरतावपात् सुट् परादिर्भवति । अपस्किरते षण्डो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी, अपस्किरते श्वा निवासार्थी । आलिखतीत्यर्थः । आलेखन इति किम् ? अपकिरति तृणानि श्वा निवासार्थी ।। ११७।
११८. प्रात् तुम्पि गोकर्तृ के गोकर्तृके तुम्पतौ प्रात् सुट् परादिर्भवति । प्रस्तुम्पति गौः । गोकर्तृक इति किम् ? प्रतुम्पत्यश्वः ।। ११८।

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452