Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्र परिशिष्टम् १३७. वा धाप्रत्यये
धाप्रत्यये षषोऽन्तस्य उद् भवति वा । तत्संनियोगेन परस्यादेष्टवगदिशश्च | संख्यायाः प्रकारे धा । षोढा, षड्धा । षषः स्वार्थेऽपि धामिच्छन्ति । तत्रैवायं विधिरिति वार्त्तिकविदः । नानार्थविहितस्येदं ग्रहणमिति काशिकादौ । प्रकाराधिकारे बोढा वेति च तन्त्रान्तरम् । नैयासिकास्तृत्वं विकल्प्य ढत्वं नित्यमादिशन्ति । तेषां षोढा, षड्ढेति । भाष्यटीकायां तु सहोभयं विकल्पितमिति । शाकटायनानामपि मतमेतत्, तदिह प्रमाणम् ।। १३७।
३१९
१३८. अन्तमान्तितमान्तियान्तितोऽन्तियदः
एते निपात्यन्ते । अन्तिकस्य तमे तादिलोपः कादिलोपश्च । अन्तमः, , अन्तितमः । यतसोर्वा कादिलोपः । अन्तिके भवः अन्तियः । अन्तिकादन्तितः, अन्तिके सीदति अन्तिषत् । इह मूर्धन्यश्च निपात्यते ।। १३८ । १३९. ईदपो द्व्यन्तरः
द्वेरन्तरश्च परस्याप आदेरी द्भवति । द्वीपः, अन्तरीपः । पन्थ्यप्पुर इत्यत् ।। १३९। १४०. प्रादेरनवर्णात्
नामिव्यञ्जनान्तात् प्रादेः परस्याप आदेरीद् भवति । परीपः, नीपः अधीपः, समीपः,दुरीपः । अनवर्णादिति किम् ? प्रापः, परापः । समाप इति समापूर्वस्य ।। १४० । १४१. अनूपो देशे
देशेऽर्थे अनोः परस्याप आदेरुद् भवति । अनूपो देश: । देश इति किम् ? अन्वीपः ।। १४१ ।
१४२. बृहस्पतिबाड्वलिगव्यूतिपृषोदरादीनि
एतानि निपात्यन्ते । बृहतां पतिः बृहस्पतिर्देवता । वाचं वदतीति वाग्वादः, तस्यापत्यं बाडूवलिः। गस्य डत्वम्, दस्य लत्वम्, धातोर्हस्वश्च । गवां यूतिः गव्यूतिः । पृषदुदरम् अस्य पृषोदरः । पृषोद्यानम् । बलादाहतं कमलेन बलाहको मेघः । धुरन्धरस्तु भागुरिमते धुराशब्देन धारेः खे ह्रस्वोऽपीष्यते । गानं धर्माऽस्येति गन्धर्वः । पिशितम् अश्नातीति पिशाचः । शवानां शयनम् श्मशानम् । मयुरिव रौतीति मयूरः ।

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452