Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 405
________________ कातन्त्रव्याकरणम् १३०. ईयकारकयोर्दुरण्यस्य ईयप्रत्यये कारकशब्दे च परे अन्यस्य दुरागमो भवति । अन्यस्येदम् अन्यदीयम् | अन्यत्कारकम् ||१३० । ३१८ १३१. अषष्टीतृतीयान्तस्याशीराशास्थास्थितेषु अषष्ठीतृतीयान्तस्यान्यस्याशीराशास्थास्थितेषु परेषु दुरागमो भवति । अन्यदाशीः, अन्यदाशा, अन्यदास्था, अन्यदास्थितः । अषष्ठीतृतीयान्तस्येति किम् ? अन्यस्याशीः । अन्येनाशा अन्याशा, अन्येनास्था अन्यास्था, अन्येनास्थितः अन्यास्थितः || १३१ | १३२. ऊत्युत्सुकरागेषु एष्वषष्ठीतृतीयान्तस्यान्यस्य दुरागमो भवति । अन्यदूतिः । अन्यदुत्सुकः । अन्यद्रागः। अषष्ठीतृतीयान्तस्येति किम् ? अन्यस्यौति ः अन्यौतिः । ऊटो वृद्धिः । अन्येनोत्सुकः अन्योत्सुकः । अन्येन रागः अन्यरागः || १३२ | १३३. वाऽर्थे अषष्टी तृतीयान्तस्यान्यस्य अर्थशब्दे परे दुरागमो भवति वा । अन्यदर्थः अन्यार्थः । अषष्ठीतृतीयान्तस्येत्येव । अन्यस्यान्येन वा अर्थः अन्यार्थः ।। १३३ । १३४. उद् दुरो ध्ये टवर्गश्च परादेः ध्ये परतो दुरोऽन्तस्य उद् भवति । परस्यादेष्टवर्गादेशश्च । दुर्ध्यायति इति दूढ्यः ।। १३४ ! १३५. खलि दाशृनाशिदभेषु खलन्तेषु दाश्रादिषु दुरोऽन्तस्य उद् भवति । परस्यादेष्टवर्गादेशश्च । दुर्दाश्यते दूडाशः । दुर्नाश्यते दूणाशः । दुर्दभ्यते दूडभः । अतो निपातनात् खलि दन्भेर्नलोपः ।। १३५ । १३६. षषो दन्तृदशनोः दन्तृदशनोः परतः षषोऽन्तस्य उद् भवति, परस्यादेष्टवर्गादेशश्च । षड् दन्ता अस्य षोडन् वत्सः । बहुव्रीहौ सुसंख्यादिभ्यो वयसि दन्तस्य दन्तृ । षड्भिरधिका दश षोडश || १३६ ।

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452