Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 404
________________ कातन्त्र परिशिष्टम् १२३. प्रहरिभ्यामृषौ कण्वचन्द्रयोः कण्वचन्द्रयोः प्रहरिभ्यां यथासंख्यम् ऋषावर्थे सुड् भवति । प्रगतं कण्वं पापमस्य प्रस्कण्वो नाम ऋषिः । हरिरिव चन्द्रो रमणीयः, हरेरिव चन्द्रो दीप्तिरस्येति वा । हरिश्चन्द्रः । ऋषाविति किम् ? यज्वा हरिचन्द्रो युवा ।।१२३ । १२४. आङश्चर्येऽद्भुते ३१७ अद्भुतेऽर्थे आश्चर्ये सुड् भवति | आश्चर्यम् | अद्भुत इति किम् ? आचर्यो ग्रामः ।। १२४ । १२५. करणे भद्रोष्णयोर्मुः करणशब्दे परे भद्रोष्णयोर्मुरागमो भवति । भद्रङ्करणम्, उष्णङ्करणम् ॥१२५ । १२६. इन्द्रेऽग्निभ्राष्ट्रयोः इन्धे परे अग्नि- भ्राष्ट्रयोर्मुरागमो भवति । इन्धेरिनन्तादल् – अग्निमिन्धः, भ्राष्ट्रमिन्धः ।। १२६ । १२७. प्राताण्णे श्येनतिलयोः प्रातात् णप्रत्यये परे श्येनतिलयोर्मुरागमो भवति । श्येनपातस्तिलपातश्चास्यां क्रियते इति श्येनम्पाता मृगया, तैलम्पाता पितृक्रिया । घञ्युत्तरपदात् सोऽस्यां क्रियते इति णं वक्ष्यति पातेन व्यवहिते णेऽर्थात् || १२७। १२८. पृणप्रीणयोर्लोकस्य पृणप्रीणयोः परयोर्लोकस्य मुरागमो भवति । लोकम्पृणः, लोकम्प्रीणः । इदम् अप्रमाणं चान्द्रकाशिकादौ || १२८ | १२९. धेनुम्भव्यामध्यन्दिनमनभ्यासमित्यः एते न्वागमे सति निपात्यन्ते । धेनुर्भविष्यति धेनुम्भव्या । भव्यगेयेति कर्तरि यः । निपातनात् पूर्वनिपातः। दिनस्य मध्यं मध्यन्दिनम् । अनभ्यासे दूरे इत्यः अनभ्यासम् इत्यः, परिहार्यसन्निधिरित्यर्थः । धेनुम्भव्या वेति पठन्त्येके ।। १२९ ।

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452