________________
कातन्त्र परिशिष्टम्
१२३. प्रहरिभ्यामृषौ कण्वचन्द्रयोः
कण्वचन्द्रयोः प्रहरिभ्यां यथासंख्यम् ऋषावर्थे सुड् भवति । प्रगतं कण्वं पापमस्य प्रस्कण्वो नाम ऋषिः । हरिरिव चन्द्रो रमणीयः, हरेरिव चन्द्रो दीप्तिरस्येति वा । हरिश्चन्द्रः । ऋषाविति किम् ? यज्वा हरिचन्द्रो युवा ।।१२३ । १२४. आङश्चर्येऽद्भुते
३१७
अद्भुतेऽर्थे आश्चर्ये सुड् भवति | आश्चर्यम् | अद्भुत इति किम् ? आचर्यो ग्रामः ।। १२४ ।
१२५. करणे भद्रोष्णयोर्मुः
करणशब्दे परे भद्रोष्णयोर्मुरागमो भवति । भद्रङ्करणम्, उष्णङ्करणम् ॥१२५ । १२६. इन्द्रेऽग्निभ्राष्ट्रयोः
इन्धे परे अग्नि- भ्राष्ट्रयोर्मुरागमो भवति । इन्धेरिनन्तादल् – अग्निमिन्धः, भ्राष्ट्रमिन्धः ।। १२६ ।
१२७. प्राताण्णे श्येनतिलयोः
प्रातात् णप्रत्यये परे श्येनतिलयोर्मुरागमो भवति । श्येनपातस्तिलपातश्चास्यां क्रियते इति श्येनम्पाता मृगया, तैलम्पाता पितृक्रिया । घञ्युत्तरपदात् सोऽस्यां क्रियते इति णं वक्ष्यति पातेन व्यवहिते णेऽर्थात् || १२७।
१२८. पृणप्रीणयोर्लोकस्य
पृणप्रीणयोः परयोर्लोकस्य मुरागमो भवति । लोकम्पृणः, लोकम्प्रीणः । इदम् अप्रमाणं चान्द्रकाशिकादौ || १२८ |
१२९. धेनुम्भव्यामध्यन्दिनमनभ्यासमित्यः
एते न्वागमे सति निपात्यन्ते । धेनुर्भविष्यति धेनुम्भव्या । भव्यगेयेति कर्तरि यः । निपातनात् पूर्वनिपातः। दिनस्य मध्यं मध्यन्दिनम् । अनभ्यासे दूरे इत्यः अनभ्यासम् इत्यः, परिहार्यसन्निधिरित्यर्थः । धेनुम्भव्या वेति पठन्त्येके ।। १२९ ।