________________
३१६
कातन्त्रव्याकरणम्
११९. वृत्ती वृत्तिरेकार्थीभावः । स इह समासेऽवशिष्यते । तत्र वक्ष्यमाणो विधिर्वेदितव्यः ।। ११९ ।
१२०. विष्करो विकिरे विकिरेऽर्थे वेः किरे सुटि परिनिविभ्यः सितसयसिवुसहसुटामिति मूर्धन्ये च 'विष्किरः' इति निपात्यते । इहार्थाद् विभाषा | लावकादयः कियन्त एव शकुनयो विकिराः परिगण्यन्ते । भक्ष्याः सर्वे शकुनयो विकिरा इति वैयाकरणाः । नामकाण्डे तु शकुनिमात्रपर्यायावेतो ।। १२०।
१२१. कास्तीराजस्तुन्दमस्करमस्करिणः एते ससुटो निपात्यन्ते । ईषत् तीरमस्य ।अजस्येव तुन्दमस्य ।कास्तीरम् अजस्तुन्दं च नगरम् | मा क्रियतेऽनेनेति मस्करो वेणुर्दण्डश्च । मा कर्तुं शीलमस्येति मस्करी परिव्राट् ।। १२१।
१२२. अपस्करादयश्च अपस्करादयश्च ससुटो निपात्यन्ते ।
अपस्करो रथस्याङ्गे पुरीषे स्यादपस्करः । कुस्तुम्बुरू च धन्याके सातत्ये त्वपरस्परः॥ १ । प्रायस्यानशनार्थस्य चित्ते चित्तौ विभाषया । प्रायसा संग्रहो नैव न ह्येषोऽनशनार्थकः॥ २ । वृक्षे वनस्पती रूढो कशायां स्यात् प्रतिष्कशः। आङः पदे प्रतिष्ठायां रथस्पा सरिदन्तरे ॥ ३ । माने गवामसेव्ये च गवां गम्ये च गोष्पदम् । वृक्षे कारस्करो देशे पारस्कर इति स्मृतम् ॥ ४ । परःशतायास्ते येषां परां संख्या शताधिकात् । क्रियाविनिमयेऽन्योऽन्यपरस्परौ तथा स्मृतौ ॥ ५। सुषामादिगणे पाठान्मूर्धन्यो गोष्पदे भवेत् । प्रतिष्कशे रथस्पायामपि चान्द्रैरयं मतः॥६।