________________
कातन्त्रव्याकरणम्
१३०. ईयकारकयोर्दुरण्यस्य
ईयप्रत्यये कारकशब्दे च परे अन्यस्य दुरागमो भवति । अन्यस्येदम् अन्यदीयम् | अन्यत्कारकम् ||१३० ।
३१८
१३१. अषष्टीतृतीयान्तस्याशीराशास्थास्थितेषु
अषष्ठीतृतीयान्तस्यान्यस्याशीराशास्थास्थितेषु परेषु दुरागमो भवति । अन्यदाशीः, अन्यदाशा, अन्यदास्था, अन्यदास्थितः । अषष्ठीतृतीयान्तस्येति किम् ? अन्यस्याशीः । अन्येनाशा अन्याशा, अन्येनास्था अन्यास्था, अन्येनास्थितः अन्यास्थितः || १३१ | १३२. ऊत्युत्सुकरागेषु
एष्वषष्ठीतृतीयान्तस्यान्यस्य दुरागमो भवति । अन्यदूतिः । अन्यदुत्सुकः । अन्यद्रागः। अषष्ठीतृतीयान्तस्येति किम् ? अन्यस्यौति ः अन्यौतिः । ऊटो वृद्धिः । अन्येनोत्सुकः अन्योत्सुकः । अन्येन रागः अन्यरागः || १३२ |
१३३. वाऽर्थे
अषष्टी तृतीयान्तस्यान्यस्य अर्थशब्दे परे दुरागमो भवति वा । अन्यदर्थः अन्यार्थः । अषष्ठीतृतीयान्तस्येत्येव । अन्यस्यान्येन वा अर्थः अन्यार्थः ।। १३३ ।
१३४. उद् दुरो ध्ये टवर्गश्च परादेः
ध्ये परतो दुरोऽन्तस्य उद् भवति । परस्यादेष्टवर्गादेशश्च । दुर्ध्यायति इति दूढ्यः ।। १३४ !
१३५. खलि दाशृनाशिदभेषु
खलन्तेषु दाश्रादिषु दुरोऽन्तस्य उद् भवति । परस्यादेष्टवर्गादेशश्च । दुर्दाश्यते दूडाशः । दुर्नाश्यते दूणाशः । दुर्दभ्यते दूडभः । अतो निपातनात् खलि दन्भेर्नलोपः ।। १३५ ।
१३६. षषो दन्तृदशनोः
दन्तृदशनोः परतः षषोऽन्तस्य उद् भवति, परस्यादेष्टवर्गादेशश्च । षड् दन्ता अस्य षोडन् वत्सः । बहुव्रीहौ सुसंख्यादिभ्यो वयसि दन्तस्य दन्तृ । षड्भिरधिका दश षोडश || १३६ ।