Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 400
________________ कातन्त्रपरिशिष्टम् ३१३ १०२. वाक्यस्वराणामन्त्यः समर्थः पदसमूहो वाक्यम् । दूराह्वाने वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति | आगच्छ भो देवदत्त' | वाक्यग्रहणं पदमात्रस्यान्त्यो मा भूत् । स्वरग्रहणम् उपधाप्लुतत्वार्थम् । आगच्छ भो इन्द्रवर्म निति ।। १०२। १०३. वाऽनृद् गुरुः पर्यायेण ऋकारवार्जतो गुरुर्दूराह्वाने पर्यायेण प्लुतो भवति वा । आगच्छ भो देवदत्त', आगच्छ भो दे वदत, आगच्छ भो देवदत्त । अनृदिति किम् ? आगच्छ भो ऋष्यध्वज! गुतरिति किम् ? आगच्छ भो सुरथ । श्रुतत्वादाहूयमानस्वराणामेवैष विधिः ।। १०३। १०४. नामगोत्रयोरस्त्रीशूद्रप्रत्यभिवादे अभिवादितेन गुरुणा अभिवादकस्याशीः प्रत्यभिवादः । अस्त्रीशूद्रयोः प्रत्यभिवादे वाक्यस्वराणामन्त्यः स्वरः प्लुतो भवति । स चेन्नामगोत्रयोरवयवः स्यात् । अभिवादये वशिष्ठोऽहम् । आयुष्मानेधि वशिष्ट । अभिवादये कौण्डिन्योऽहम्, आयुष्मानेधि कौण्डिन्य ! नामगोत्रयोरिति किम् ? अभिवादये विप्रोऽहम्, आयुष्मानेधि विप्र ! भाष्ये तु नामगोत्रयोरिति न चिन्तितम् । न स्त्रीशूद्रासूयकेष्विति च समर्थितम् । स्त्रीशूद्रप्रतिषेधः किम् ? अभिवादये गर्यहम् । आयुष्मती भव गार्गि ! अभिवादये इन्द्रदासोऽहम्, शुभंयुरेधीन्द्रदास! ।।१०४। १०५ . राजन्यविशां वा प्रत्यभिवादे वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति वा । स चेद् राजन्यविशां नामगोत्रयोरवयः स्यात् । अभिवादये भरतोऽहम्, आयुष्मानेधि भरत', आयुष्मानेधि भरत । एवम् आयुष्मानेधीन्द्रवर्मन्, आयुष्मानेधीन्द्रवर्मन् । वैश्यस्य च- अभिवादये इन्द्रपालिततोऽहम्, आयुष्मानेधीन्द्रपालित', आयुष्मानेधीन्द्रपालित ।। १०५ । १०६. चितीवार्थे इवार्थे चिच्छब्दे प्रयुज्यमाने वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति वा । वारिचिद् वहसि', वारिचिद् वहसि । वारीवेत्यर्थः। ज्योतिश्चिद् वहसि', ज्योतिश्चिद् वहसि । ज्योतिरिवेत्यर्थः ।। १०६।

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452