________________
कातन्त्रपरिशिष्टम्
३१३
१०२. वाक्यस्वराणामन्त्यः समर्थः पदसमूहो वाक्यम् । दूराह्वाने वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति | आगच्छ भो देवदत्त' | वाक्यग्रहणं पदमात्रस्यान्त्यो मा भूत् । स्वरग्रहणम् उपधाप्लुतत्वार्थम् । आगच्छ भो इन्द्रवर्म निति ।। १०२।
१०३. वाऽनृद् गुरुः पर्यायेण ऋकारवार्जतो गुरुर्दूराह्वाने पर्यायेण प्लुतो भवति वा । आगच्छ भो देवदत्त', आगच्छ भो दे वदत, आगच्छ भो देवदत्त । अनृदिति किम् ? आगच्छ भो ऋष्यध्वज! गुतरिति किम् ? आगच्छ भो सुरथ । श्रुतत्वादाहूयमानस्वराणामेवैष विधिः ।। १०३।
१०४. नामगोत्रयोरस्त्रीशूद्रप्रत्यभिवादे अभिवादितेन गुरुणा अभिवादकस्याशीः प्रत्यभिवादः । अस्त्रीशूद्रयोः प्रत्यभिवादे वाक्यस्वराणामन्त्यः स्वरः प्लुतो भवति । स चेन्नामगोत्रयोरवयवः स्यात् । अभिवादये वशिष्ठोऽहम् । आयुष्मानेधि वशिष्ट । अभिवादये कौण्डिन्योऽहम्, आयुष्मानेधि कौण्डिन्य ! नामगोत्रयोरिति किम् ? अभिवादये विप्रोऽहम्, आयुष्मानेधि विप्र ! भाष्ये तु नामगोत्रयोरिति न चिन्तितम् । न स्त्रीशूद्रासूयकेष्विति च समर्थितम् । स्त्रीशूद्रप्रतिषेधः किम् ? अभिवादये गर्यहम् । आयुष्मती भव गार्गि ! अभिवादये इन्द्रदासोऽहम्, शुभंयुरेधीन्द्रदास! ।।१०४।
१०५ . राजन्यविशां वा प्रत्यभिवादे वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति वा । स चेद् राजन्यविशां नामगोत्रयोरवयः स्यात् । अभिवादये भरतोऽहम्, आयुष्मानेधि भरत', आयुष्मानेधि भरत । एवम् आयुष्मानेधीन्द्रवर्मन्, आयुष्मानेधीन्द्रवर्मन् । वैश्यस्य च- अभिवादये इन्द्रपालिततोऽहम्, आयुष्मानेधीन्द्रपालित', आयुष्मानेधीन्द्रपालित ।। १०५ ।
१०६. चितीवार्थे इवार्थे चिच्छब्दे प्रयुज्यमाने वाक्यस्वराणामन्त्यस्वरः प्लुतो भवति वा । वारिचिद् वहसि', वारिचिद् वहसि । वारीवेत्यर्थः। ज्योतिश्चिद् वहसि', ज्योतिश्चिद् वहसि । ज्योतिरिवेत्यर्थः ।। १०६।