________________
३१२
कातन्त्रव्याकरणम् __ ९६. धातूपसर्गयोरुपसर्गः ____ धातूपसर्गयोरुपसर्गः सह सुसन्निकर्षों भवति । अधीते, प्रोोति, अध्येति, उपैति । उपसर्गस्य च व्याक्रियते व्युदस्यति ।।९६।
९७. पदयोरवृत्तौ वा अवृत्तौ असमासे द्वयोः पदयोः सुसन्निकर्षो वा भवति । इह अम्भः इहाम्भः । इह इन्द्रः इहेन्द्रः । इह उष्ट्रः इहोष्टः । इह ऐन्द्री इहैन्द्री | अवृत्ताविति किम् ? कुट्यर्थः, जान्वर्थः । इहोत्तरपदस्य पदत्वं नास्तीति चेत् तर्हि त्रिपदायां वृत्तौ प्रयोजनम् | मत्ताल्पमातङ्गं वनम् ।।९७।
९८. भोः पदान्तौ यावीषत्पृष्टतरौ भोशब्दात् परः पदान्तो यकार ईषत्पृष्टतरोऽनुशिष्यते । भोयत्र । भगोऽघोभ्यामपि स्मरन्ति । भगोयत्र, अघोयत्र | पदान्त इति किम् ? भो यासि । वग्रहणमुत्तरार्थम् ।।९८।
९९. अवर्णाद् उनि अवर्णात् परौ पदान्तौ य्वौ उत्रि परत ईषत्पृष्टतरावनुशिष्येते । कयु, देवायु, तस्मायु, पटवु, पटावु । अवर्णादिति किम्? नछु । उनीति किम् ? सयुः ।। ९९।
१००. वा स्वरे अवर्णात् परौ पदान्तौ य्वौ स्वरे परतः ईषत्पृष्टतरौ अनुशिष्येते वा । तयााः , तयााः । तस्मायुदकम्, तस्मायुदकम् । पटवेहि, पटवेहि । कयिह, कयिह । देवायिह, देवायिह ।।१००।
१०१. दूराद्धृतौ प्लुतो हैहयोः 'है-हे' इत्येतयोः स्वरो दूराद्धृतौ प्लुतो भवति । है' अम्ब, है' इन्द्र । हेअम्ब, हे' इन्द्र । दूरादिति किम् ? आगच्छ हायम्ब, आगच्छ ह इन्द्र । यतो यत्र प्राकृतप्रयलजो ध्वनिरव्याहतो न संचरति तत् ततो दूरम् ।। १०१।