________________
३११
कातन्त्रपरिशिष्टम्
९०. शिटः प्रथमाद्वितीयाभ्याम् प्रथमाद्वितीयाभ्यां परस्य शिटो वा द्विर्भवति । त्वक्श्शयनम्, त्वक्शयनम् । त्वख्श्शयनम्, त्वख्शयनम् । षट्षण्डः, षट्षण्डः । षट्षण्डः, षमण्डः । अप्स्सरसः, अप्सरसः । अफ्स्सरसः, अफ्सरसः । शिट इति किम् ? वाक्चरति । प्रथमाद्वितीयाभ्यामिति किम् ? सर्पिष्षु, धनुष्षु ||९०।
९१. तस्मात् तयोः तस्माच्छिटः परयोः प्रथमद्वितीययोर्द्धिर्भवति वा । प्रायच्चित्तम्, प्रायश्चित्तम् । वृश्च्चति, वृश्चति ।अयश्च्छाया, अयश्छाया ।ष्ट्ठीवति,ष्ठीवति ।स्त्थाता, स्थातां ।।९१ ।
९२. वर्गादञोऽन्तस्थायाः ञकारवर्जिताद् वर्गाक्षराद् अन्तस्थाया द्विर्भवति वा । नय्यत्र, नद्यत्र । वध्व्वत्र, वध्वत्र । वाग्व्वस्ति, वाग्वस्ति । नेनिज्वहे, नेनिज्वहे | शुक्ल्लः, शुक्लः । वर्गादिति किम् ? शिष्यः, आस्वहे । अञ इति किम् ? राज्यौ, प्राइयौ । अन्तस्थाया इति किम्? सिक्तम्, दग्धम् ।। ९२।
९३. तस्यास्तस्य तस्या अन्तस्थायाः परस्य तस्यानो वर्गस्य द्विर्भवति वा । वल्क्कनम्, वल्कनम् । उल्म्मुकम्, उल्मुकम् । कल्प्पः, कल्पः । अश्वय्क्करोति, अश्वय् करोति । मूलप्पचति, मूलव् पचति । हल्गीयते, हल्गीयते ।।९३।
__९४. न पुत्रस्यादिन् पुत्रादिनोराक्रोशे __ आदिन्- पुत्रादिनोः परयोराक्रोशे गम्यमाने पुत्रस्य द्विर्न भवति । पुत्रादिनी वृषलि ! भूयाः पुत्रपुत्रादिनी वृषलि ! भूयाः । आक्रोश इति किम् ? पुत्रपुत्रादिनी मत्सी, पुत्रपुत्रादिनी व्याघ्री ।संयोगावयवव्यञ्जनस्य सजातीयस्यैकस्यानेकस्योच्चारणाभेद इति चूर्णिः। शाकटायनादयस्तु मन्यन्ते भिन्नमेकम् अनेकस्मात् । भिन्नयोश्च कथमभिन्ना श्रुतिः, तदयं प्रकरणोपक्रमः ।।९४।।
९५. द्वयोः सुसन्निकर्षः वर्णान्तराव्यवहितयोर्द्वयोर्वर्णयोः सुसन्निकर्षो भवति । स तु निरतिशयमानन्तर्यम् अर्धमात्राकालमात्रेणाव्यवायःसंहितोच्यते । पाणी, कुण्डे, नद्यौ, वध्वौ, प्लवते, गायति । संहितायामेव सन्धयः स्युः ।।९५ |