________________
कातन्त्रव्याकरणम्
क्लृप्प्यते, क्लृप्यते । न भ्रमतीत्यब्भ्रम्, अभ्रं च नभः । अभ्रतीत्यब्ध्रम्, अभ्रं च घनः । अपो बिभर्तीति, अब्भ्रमिति मूलविभुजादित्वात् क इत्यपरे । तदा- 'भ्रमयन्नुपैति मुहुरभ्रमयम्' इति माघयमकम् । 'भेरीरेभिभिरभ्राभैः' इति द्विर्वचन - दुर्घटं च चिन्त्यम् । यदि ध्यायतेः कः मध्यो दकारवानेवेति वृद्धाः।
सुराजितहियो यूनां तनुमध्यासते स्त्रियः।
तनुमध्याः क्षरत् स्वेदमुराजितमुखेन्दवः॥ इति यमकमनेनाधेर्धस्य द्वित्वे समर्थनीयम् । रुद्रस्तु द्विव्यञ्जनमपि मध्यशब्दमाह | भाष्यस्थित्या तु योगवाहानामपि द्वित्वेन भवितव्यम् । अय xx काम्यति, अय x काम्यति । पय ww पीतम्, पय ७ पीतम् । अस्वरसंयोग इति प्रसह्य (ज्य) प्रतिषेधात् विरामेऽपीति मतम् । त्वक्क्, त्वक् । मरुत्त्, मरुत् । ह्रस्वादिति किम्? आध्वनति, गात्रम्, गोत्रम्, वाक् । काशिकादौ तु वाक्क्, वाग्ग् इत्युदाहृतम् ।
केचित् सन्ध्यक्षरादपीच्छन्ति ‘यस्तोत्रख्यातवीर्य्यः' इति । स्तुतुदोष्ट्रनि विसर्जनीयलोपे सति रूपसाम्यं स्यात् । अर्ह इति किम् ? निर्गतम्, जागर्ति । रलोपे दीर्घो मा भूत् । उह्यते ब्रह्मा । व्यञ्जनस्येति किम् ? तितउ धान्यं दधि ऋणम् । अस्वरसंयोग इति किम् ? समिधि, दृशदि, इन्द्रः, चन्द्रः ।।८८।।
८९. स्वराद् रहाभ्यामशिटो व्यञ्जनस्य स्वरात् परौ यौ रेफहकारौ ताभ्यां परस्याशिटो व्यञ्जनस्य वा द्विर्भवति । कर्कः, कर्कः । अर्घः, अर्घः । वर्द्धते, वर्धते । जागर्ति, जागर्ति । प्रहल्लादते, प्रह्लादते । निन्नुते, निकुते । वाह्ल्लीकम्, वाह्लीकम् । स्वरादिति किम्? अध्रयते संलादते । अनुस्वारस्य हि णत्वविधावेव स्वरत्वमिष्टम् । उक्तं हि – 'व्यञ्जनता स्वरसन्धौ स्वरता णत्वविधौ योगवाहानाम्' । x कuपोः परगमनार्थं व्यञ्जनतेष्टाऽनुशिष्टिकृतः । केवलानामनुच्चारणाद् वर्णान्तरयोगं वहन्तीति योगवाहा अनुस्वारादयः । सामान्येनाट्सूपदेशो योगवाहानामिति भाष्यात्। स्वरादिव योगावाहादपि द्वित्वेन भवितव्यम् । अशिटः किम् ? दर्शयति, वर्षति, कार्सरम्, बर्हिः । तन्त्रान्तरे रेफात् शषसहानां स्वरे निषेधाद् व्यञ्जने कार्यम्, पाणिरिति द्विः स्यादेव । प्रह्लाद इति रस्य द्वित्वे पदमध्येऽपि रलोपः । यथा नर्दस्पर्धोश्चर्करीतयोः सौ दधो रत्वे अनानाः, अपास्पारिति ।।८।।