________________
३०९
कातन्त्रपरिशिष्टम् ८३. एकाधिकरणे प्रचेतसो राज्यवृत्तौ वा समानाधिकरणे राजनि परतोऽसमासे प्रचेतसो विसर्जनीयस्य वा रेफो भवति । हे प्रचेतो राजन् ! हे प्रचेता राजन्! एकाधिकरण इति किम् ? जुहुधि प्रचेतो राजन्नेधि रथी । आवृत्ताविति किम् ? प्रचेतो राज्ञः । प्रचेतो राजानो ग्रामाः । भाष्ये तु- वाग्रहणं न पठ्यते । असमासे चायं विधिरित्यपि नोक्तम् । राज्ञीत्युपधालोपलक्षितस्य ग्रहणादिह न भवति- हे प्रचेतो राजन्! राजतेः शन्तृङ् ।। ८३।
८४. द्विश्छः सुसन्निकर्षे अधिकारोऽयम् । सुसन्निकर्षः संहिता ।। ८४।
८५. आङ्माभ्याम् आङ्माभ्यां परश्छकारो द्विर्भवति । आच्छाया, माच्छिदत् । आङो ग्रहणादिह वा स्यादेव- आच्छाया नु सा | आछाया नु सा | परेण विकल्पे प्राप्ते नित्यार्थोऽयमारम्भः । अयं माच्छादयति । अयं माछादयति । अव्ययेन साहचर्याद् अनव्ययान्न स्यात् ।। ८५।
८६. गुरोः सामर्थ्य वा अन्योऽन्यमभिसम्बन्धः सामर्थ्यम् । कार्यिनिमित्तपदयोः सामर्थ्य गुर्वक्षरात् परश्छकारो द्विर्भवति वा । सेनाच्छत्रम्, सेनाछत्रम् | जगतीच्छन्दः, जगतीछन्दः । वधूच्छत्रम्, वधूछत्रम् । रथेच्छत्रम्, रथे छत्रम् । रैच्छाया, रैछाया | गोच्छाया, गोछाया । नौच्छाया, नौछाया । सन्ध्यक्षराण्यदीर्घाण्यपि गुरूण्येव । कथमन्यथा एधाञ्चक्रे , ओखाञ्चक्रे। गुरोरिति किम् ? साधुच्छत्रं नित्यं स्यात् । सामर्थ्य इति किम् ? ह्रीच्छति, तिष्ठतु कन्याच्छन्दस्त्वमधीष्व ।। ८६।
८७. प्लुताद् गुर्वा देशात् गुर्वक्षरादेशात् प्लुतात् परश्छकारः सामर्थ्य वा द्विर्भवति । रिपू रिपूच्छेदयिष्यामि । रिपू रिपू छेदयिष्यामि वाम् । एहीह सुभूतेच्छात्र, एहीह सुभूते छात्र । गुर्वा देशाद् इति किम् ? चौर चौरच्छेदयिष्यामि त्वाम् । नित्यं स्यात् ।। ८७।
८८. हस्वाद) व्यञ्जनस्यास्वरसंयोगे ह्रस्वात् परस्य व्यञ्जनस्यारेफहकारस्य स्वरसंयोगाभावे वा द्विर्भवति । रूपम् इत्यपेक्ष्य षष्ठी । पुत्रः, पुत्रः । चित्रम्, चित्रम् । रुद्ध्यते, रुध्यते । गृद्धः, गृध्रः ।