________________
३१४
कातन्त्रव्याकरणम्
१०७. हेः प्रतिवचने प्रतिवचनमुत्तरम् । तत्र हिशब्दस्य स्वरः प्लुतो भवति वा । अकार्षीः कटं वृषल! अकार्षीः हिरे, अकार्षीः हि । प्रतिवचन इति किम् ? वृषो वहति रथं हि ।।१०७।
१०८. भर्त्सने पर्यायेणाभ्यस्तस्य भर्त्सने द्विरुक्तस्यान्त्यस्वरः पर्यायेण प्लुतो भवति वा | चौर' चौर ! दण्डयिष्यामि त्वाम्, चौर चौर दण्डयिष्यामि त्वाम्, चौर चौर दण्डयिष्यामि त्वाम् । चौर' चौर ! बन्धयिष्यामि त्वाम्, चौर चौर' बन्धयिष्यामि त्वाम्, चौर चौर बन्धयिष्यामि त्वाम् ।। १०८।
१०९. अङ्गयुक्तस्याख्यातस्याकाङ्क्षायाम् अङ्गेत्यनेन निपातेन युक्तस्याख्यातस्याकाङ्क्षायामन्त्यः स्वरः प्लुतो भवति वा । अङ्ग! दीव्यसि पुरा बुध्यसे जाल्म, अङ्ग ! दीव्यसि पुरा बुध्यसे जाल्म | अड्ग! रमसे एतर्हि खिद्यसे जाल्म | अङ्ग ! रमसे एतर्हि खिद्यसे जाल्म | आख्यातस्येति किम् ? अङ्ग ब्राह्मणक ! पलाण्डूनत्सि । आकाङ्क्षायामिति किम् ? अङ्ग! हन्यसे, नात्रान्यदपेक्ष्यते । भर्सन इत्येव- अङ्ग ! जुहुधि पुराधीषे ब्रह्म ।। १०९।
११०. विचारणे पूर्वस्य विचारणे पूर्वस्यान्त्यः स्वरः प्लुतो वा भवति । अहिर्नु रज्जुर्नु, अहिर्नु रज्जुर्नु । स्थाणुर्नु पुरुषो नु, स्थाणुर्नु पुरुषो नु । तन्त्रान्तरेऽन्येऽपि प्लुतविषयाः स्युः, ते पुनरन्यस्य न सम्मताः । सर्व एव प्लुता विभाषयितव्या इति स्मृतेश्च नात्यन्तमिहादरः ।। ११०।
१११. सुट् परादिरचादौ सुड् भवति, स च चकारादेरन्यत्र परादिः। एतद् द्वयमधिकर्तव्यम् । सुड् उदाहरिष्यते । परादित्वे च प्रयोजनम् । समस्कार्षीदिति सुटः प्रागट् । सञ्चस्करुरिति ससुटो द्विर्वचनम्, धातोः संयोगादित्वाद् गुणश्च । अचादाविति किम्? हरिश्चन्द्रः, प्रायश्चित्तम्, आश्चर्यम् । अपरादित्वे विसर्जनीयः ।। १११।