Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 399
________________ ३१२ कातन्त्रव्याकरणम् __ ९६. धातूपसर्गयोरुपसर्गः ____ धातूपसर्गयोरुपसर्गः सह सुसन्निकर्षों भवति । अधीते, प्रोोति, अध्येति, उपैति । उपसर्गस्य च व्याक्रियते व्युदस्यति ।।९६। ९७. पदयोरवृत्तौ वा अवृत्तौ असमासे द्वयोः पदयोः सुसन्निकर्षो वा भवति । इह अम्भः इहाम्भः । इह इन्द्रः इहेन्द्रः । इह उष्ट्रः इहोष्टः । इह ऐन्द्री इहैन्द्री | अवृत्ताविति किम् ? कुट्यर्थः, जान्वर्थः । इहोत्तरपदस्य पदत्वं नास्तीति चेत् तर्हि त्रिपदायां वृत्तौ प्रयोजनम् | मत्ताल्पमातङ्गं वनम् ।।९७। ९८. भोः पदान्तौ यावीषत्पृष्टतरौ भोशब्दात् परः पदान्तो यकार ईषत्पृष्टतरोऽनुशिष्यते । भोयत्र । भगोऽघोभ्यामपि स्मरन्ति । भगोयत्र, अघोयत्र | पदान्त इति किम् ? भो यासि । वग्रहणमुत्तरार्थम् ।।९८। ९९. अवर्णाद् उनि अवर्णात् परौ पदान्तौ य्वौ उत्रि परत ईषत्पृष्टतरावनुशिष्येते । कयु, देवायु, तस्मायु, पटवु, पटावु । अवर्णादिति किम्? नछु । उनीति किम् ? सयुः ।। ९९। १००. वा स्वरे अवर्णात् परौ पदान्तौ य्वौ स्वरे परतः ईषत्पृष्टतरौ अनुशिष्येते वा । तयााः , तयााः । तस्मायुदकम्, तस्मायुदकम् । पटवेहि, पटवेहि । कयिह, कयिह । देवायिह, देवायिह ।।१००। १०१. दूराद्धृतौ प्लुतो हैहयोः 'है-हे' इत्येतयोः स्वरो दूराद्धृतौ प्लुतो भवति । है' अम्ब, है' इन्द्र । हेअम्ब, हे' इन्द्र । दूरादिति किम् ? आगच्छ हायम्ब, आगच्छ ह इन्द्र । यतो यत्र प्राकृतप्रयलजो ध्वनिरव्याहतो न संचरति तत् ततो दूरम् ।। १०१।

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452