Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 396
________________ ३०९ कातन्त्रपरिशिष्टम् ८३. एकाधिकरणे प्रचेतसो राज्यवृत्तौ वा समानाधिकरणे राजनि परतोऽसमासे प्रचेतसो विसर्जनीयस्य वा रेफो भवति । हे प्रचेतो राजन् ! हे प्रचेता राजन्! एकाधिकरण इति किम् ? जुहुधि प्रचेतो राजन्नेधि रथी । आवृत्ताविति किम् ? प्रचेतो राज्ञः । प्रचेतो राजानो ग्रामाः । भाष्ये तु- वाग्रहणं न पठ्यते । असमासे चायं विधिरित्यपि नोक्तम् । राज्ञीत्युपधालोपलक्षितस्य ग्रहणादिह न भवति- हे प्रचेतो राजन्! राजतेः शन्तृङ् ।। ८३। ८४. द्विश्छः सुसन्निकर्षे अधिकारोऽयम् । सुसन्निकर्षः संहिता ।। ८४। ८५. आङ्माभ्याम् आङ्माभ्यां परश्छकारो द्विर्भवति । आच्छाया, माच्छिदत् । आङो ग्रहणादिह वा स्यादेव- आच्छाया नु सा | आछाया नु सा | परेण विकल्पे प्राप्ते नित्यार्थोऽयमारम्भः । अयं माच्छादयति । अयं माछादयति । अव्ययेन साहचर्याद् अनव्ययान्न स्यात् ।। ८५। ८६. गुरोः सामर्थ्य वा अन्योऽन्यमभिसम्बन्धः सामर्थ्यम् । कार्यिनिमित्तपदयोः सामर्थ्य गुर्वक्षरात् परश्छकारो द्विर्भवति वा । सेनाच्छत्रम्, सेनाछत्रम् | जगतीच्छन्दः, जगतीछन्दः । वधूच्छत्रम्, वधूछत्रम् । रथेच्छत्रम्, रथे छत्रम् । रैच्छाया, रैछाया | गोच्छाया, गोछाया । नौच्छाया, नौछाया । सन्ध्यक्षराण्यदीर्घाण्यपि गुरूण्येव । कथमन्यथा एधाञ्चक्रे , ओखाञ्चक्रे। गुरोरिति किम् ? साधुच्छत्रं नित्यं स्यात् । सामर्थ्य इति किम् ? ह्रीच्छति, तिष्ठतु कन्याच्छन्दस्त्वमधीष्व ।। ८६। ८७. प्लुताद् गुर्वा देशात् गुर्वक्षरादेशात् प्लुतात् परश्छकारः सामर्थ्य वा द्विर्भवति । रिपू रिपूच्छेदयिष्यामि । रिपू रिपू छेदयिष्यामि वाम् । एहीह सुभूतेच्छात्र, एहीह सुभूते छात्र । गुर्वा देशाद् इति किम् ? चौर चौरच्छेदयिष्यामि त्वाम् । नित्यं स्यात् ।। ८७। ८८. हस्वाद) व्यञ्जनस्यास्वरसंयोगे ह्रस्वात् परस्य व्यञ्जनस्यारेफहकारस्य स्वरसंयोगाभावे वा द्विर्भवति । रूपम् इत्यपेक्ष्य षष्ठी । पुत्रः, पुत्रः । चित्रम्, चित्रम् । रुद्ध्यते, रुध्यते । गृद्धः, गृध्रः ।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452