Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 389
________________ ३०२ कातन्त्रव्याकरणम् ४४. प्रथमस्य पञ्चमो मिप्रत्यये प्रत्यये मकारे प्रथमस्य पदान्तस्य पञ्चमो भवति नित्यम् । वाङ्मयम्, मृन्मयम् पदान्तत्वान्न णत्वम् । ईण्मान्, अम्मयम् । गरुत्मानिति वक्ष्यते ।।४४। ४५. टवर्गस्य नवतिनगर्योर्नश्च णः टवर्गस्य नवतिनगर्योः परयोः पञ्चमस्तयोर्नकारस्य णश्च भवति । षण्णवतिः, षण्णगरी, सुगण्णवतिः, सुगण्णगरी | ‘नस्य णः' इति पठन्त्येके । तेषां तृतीयपञ्चमी स्तः । स्त्रीनिर्देशः किम्? षड्नगरम्, सुगनगरम् ।।४५ । ४६. वाऽनुनासिके न द्विः प्रथमस्य पदान्तस्य प्रथमस्यानुनासिके वा पञ्चमो भवति, तस्य द्विर्भावश्च न भवति । स्वरयवलाः सानुनासिका निरनुनासिकाश्च । तत्रैषामानुनासिक्यम् आन्तरतम्याद् विशेषविधानाद् वा न सर्वत्र । दृहूँ इति, दृD इति । विनूँ इति, विहूँ इति । तनूँ इति, तद् इति । कश्चिद् अविशेषेण यवलानामानुनासिक्यमिच्छन् ‘दृङ् याँता, दृङ् वाता, दृङ् लाँता' इत्युदाहरति, तदा नेष्टं वार्त्तिकादौ । चान्द्रे तु विधिरेवैष नाद्रियते ।।४६। ४७. मनोरनुस्वारपूर्वः एतदधिक्रियते ।।४७। ४८. कानोऽभ्यासस्य सः अभ्यासो द्विरुक्तपूर्वभागः | कानित्यस्य द्विरुक्तपूर्वभागम्य यो नकारस्तस्यानुस्वारपूर्वः सकारो भवति । कांस्कान् ब्रूते । वीप्सायां द्विर्वचनम् | अभ्यासस्येति किम् ? वृषान् कान् कान् नेष्यति ग्रामान् ।।४८ । ४९. वा सुटि समः समो मकारस्य सुटि परतोऽनुस्वारपूर्वः सकारो भवति वा । संस्कर्ता, संस्स्कर्ता । इह वाग्रहणमनार्षमित्येके । तदसत् । उक्तं हि भाष्ये – समो मलोप इत्येके इति । स च लोपोऽनुस्वारपूर्वोऽनुनासिकपूर्वश्चेति व्याख्यातव्यम् अपरैः । शाकटायनस्तु पक्षे समो मलोपमात्रमाह-सस्कर्ता । ततः पक्षेऽत्र समो मलोपोऽप्येष्टव्यः ।समो मकारस्यानुस्वारानुनासिकाभ्यां द्वे रूपे,सस्याभावे चानुस्वारेणैकम्, तेषु त्रिषु । तस्मात् तयोरिति कस्य वा

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452