Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 386
________________ २९९ कातन्त्रपरिशिष्टम् २९. इतावुञोऽनुनासिकदीर्घश्च अनुबन्धस्तन्त्रान्तरप्रसिद्ध्या निपातग्रहणार्थः । उजो निपातस्येतौ परतोऽनुनासिकदीर्घः प्रकृतिश्च भवति वा । ऊँ इति, उ इति, विति । दीर्घग्रहणं समानस्थान्यर्थम् । अह उ, अहो इति प्रकृतिरेव स्यात् ।।२९।। ___३०. वर्गाद् वा स्वरे स्वरवत् वर्गात् परस्योञः स्वरे परे वा वकारो भवति । वाग्वस्ति, वागु अस्ति । दृषवर्ध्वम्, दृषदु ऊर्ध्वम् । वाग्वुच्चैः, वागु उच्चैः । पचन्न्वीहते, पचन्नु ईहते । सुगण्ण्वुदके, सुगणु उदके ।क्रुविन्द्रः, क्रुङ् इन्द्रः । किम्वीहसे, किमु ईहसे ।स्वरत्वाद् ङणना द्विर्भवन्ति । मोऽनुस्वारश्च न स्यात् । संयन्तिवदिहापि प्राप्नोति ।।३०। ३१. स्वरजौ य्वावनादिस्थौ लोप्यौ व्याने 'वा' न वर्तते । स्वरे जातौ = स्वरजौ । तौ यकारवकारौ पदान्तावनादिस्थौ व्यञ्जने परे लोप्यौ भवतः । नद्या ऊः नद्यूः । तस्येहा, नद्वीहा । ऊरिति अवतेर्वेजो वा क्विपि रूपम् । अभ्यू आगच्छति, अभ्वागच्छति । प्रत्यू आगच्छति प्रत्वागच्छति । अभिप्रत्योरूशब्देनाव्ययीभावः । पटुश्चासाविश्चेति पट्विः, तस्योत्सवः पट्युत्सवः। साधु इ आस्ते साध्यास्ते । स्वरजाविति किम्? किंय् ह्यो भूतम्, किंव् ह्वलयति । य्वाविति किम् ? होत्र्युदयः । अनादिस्थाविति किम्? किंय् वृतः, व्युपधः । व्यञ्जन इति किम्? नधुदकम्, वध्वीहा | पदान्तावित्येव राय्यन्तः, नाव्यन्तः । केचिदिदं शार्ववर्मिके द्वितीयसन्धौ पठन्ति ।।३१। ३२. अवर्णात् क्विपोऽनघोषे प्रकृतिश्च ___ अवर्णात् परौ क्विबन्तस्य यौ य्वौ तौ पदान्तौ स्वरे घोषवति च लोप्यौ भवतः, तस्मिंश्च सति प्रकृतिश्च भवति । अश्वयुजं मूलवृश्चमाचष्टे इतीन्, ततः क्विप्अश्वगच्छति, मूलगच्छति |अश्वभ्याम्, मूलभ्याम् ।अश्व अग्रे, मूल अग्रे |अनघोष इति किम् ? अश्वय् चरति, मूलव् खनति । अश्वय् यु, मूलव् यु । इह सुपः षत्वं वक्ष्यते । पदान्तावित्येव- अश्वयौ, मूलवौ ।। ३२। ३३. चर्करीताभ्यासस्य चर्करीतमिति चेक्रीयितलुकि धातोः संज्ञा, तस्याभ्यासस्य स्वरे प्रकृतिर्भवति । अरिअर्ति,अरीअर्ति |अरिआरयति,अरी आरयति । भाषायामपि केचित् चर्करीतमिच्छन्ति ।

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452