Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तदा त्यदादिः ।
अतो मिथः स्यादिह साहचर्यमर्यादया पर्यवसानमित्त्थम् ॥ इति ।
यद्यपि एकतरसाहचर्येणैव सिद्धिस्तथापि परस्परसाहचर्यमुक्तं सिद्धान्तद्वयाभिप्रायेणेति न दोषः ।
कुलचन्द्रस्तु -
विकारवानेष तथा सकारो लुप्तस्वरः सोऽपि तथैषशब्दः ।
एष त्यदादेरपि सत्यदादेरित्थं विदध्यादिह साहचर्यम् ॥ इति ।
एतन्मते त्यदादिकृतपरस्परसाहचर्यं न संगच्छते, किन्त्वन्यतर एव साहचर्यमिति । अन्ये तु अवस इत्यपप्रयोगशङ्कया प्राह- सो वा वर्ण इति । व्याख्यानादिति " सश्च नोऽस्त्रियाम्” (२/१/५२) इत्यत्र विसर्गदर्शनादित्यर्थः । यद् वा व्याख्यानादिति एषस्य व्युत्पन्नत्वात् सकारोऽपि व्युत्पन्न एव युज्यते । स च पारिशेष्यात् त्यदादिरेव न च सकारो वर्णो व्युत्पन्न इति । तर्हि इषेर्घञन्तस्यापि व्युत्पन्नत्वात् कथं न ग्रहणमित्याह - त्यदादिकृतेत्यादि ।
२७९
अस्मिन् पक्षेऽपि परस्परसाहचर्यं न संगच्छते त्यदादिसकारस्य साहचर्येणैषस्यापि ग्रहणात् | वैद्यस्तु एकस्थानीये द्वितीये प्राप्यमाणे विक्षिप्तद्वितीयग्रहणं न कार्यम् । यथा रामलक्ष्मणावित्युक्ते दाशरथी राम एव प्रतीयते, नान्यः । तन्न । एकस्मिन्नेव दिवादौ 'इष गतौ, षो अन्तकर्मणि' (३ | १६, २१) इत्यनयोः पठितत्वेन विक्षिप्तत्वाभावात् ।
वस्तुतस्तु एषसाभ्याम् इति सिद्धे यत् परग्रहणं तन्नियतपरत्वपरिग्रहार्थम् । याभ्यां विसर्ग एव परः परभूतं विसर्गं विना ययोरुत्पत्तिर्नास्तीत्यर्थः । एवंभूतौ त्यदादावेव संभवत इत्यर्थः । अत्र स इत्यस्य घञन्तस्येषश्च सकारवर्णस्य च द्वितीयादावपि संभवात् परग्रहणं सुखप्रतिपत्त्यर्थमिति हेमकरवचनमपास्तम्, कार्यार्थत्वादिति ।
नन्वत्र लोप्यग्रहणं किमर्थम्, अदित्युच्यताम् । तदा अकारे अकारलोपः सिध्यति चेत्, न । 'असिद्धं बहिरङ्गम्' इति न्यायादप्राप्तेः । ननु " " स्वरानन्तर्ये नासिद्धवद्भावः”
१.
द्र० - अजानन्तर्थ न बहिरङ्गपरिभाषा ( चा० परि०पा० - ४६ ) ।

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452