SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तदा त्यदादिः । अतो मिथः स्यादिह साहचर्यमर्यादया पर्यवसानमित्त्थम् ॥ इति । यद्यपि एकतरसाहचर्येणैव सिद्धिस्तथापि परस्परसाहचर्यमुक्तं सिद्धान्तद्वयाभिप्रायेणेति न दोषः । कुलचन्द्रस्तु - विकारवानेष तथा सकारो लुप्तस्वरः सोऽपि तथैषशब्दः । एष त्यदादेरपि सत्यदादेरित्थं विदध्यादिह साहचर्यम् ॥ इति । एतन्मते त्यदादिकृतपरस्परसाहचर्यं न संगच्छते, किन्त्वन्यतर एव साहचर्यमिति । अन्ये तु अवस इत्यपप्रयोगशङ्कया प्राह- सो वा वर्ण इति । व्याख्यानादिति " सश्च नोऽस्त्रियाम्” (२/१/५२) इत्यत्र विसर्गदर्शनादित्यर्थः । यद् वा व्याख्यानादिति एषस्य व्युत्पन्नत्वात् सकारोऽपि व्युत्पन्न एव युज्यते । स च पारिशेष्यात् त्यदादिरेव न च सकारो वर्णो व्युत्पन्न इति । तर्हि इषेर्घञन्तस्यापि व्युत्पन्नत्वात् कथं न ग्रहणमित्याह - त्यदादिकृतेत्यादि । २७९ अस्मिन् पक्षेऽपि परस्परसाहचर्यं न संगच्छते त्यदादिसकारस्य साहचर्येणैषस्यापि ग्रहणात् | वैद्यस्तु एकस्थानीये द्वितीये प्राप्यमाणे विक्षिप्तद्वितीयग्रहणं न कार्यम् । यथा रामलक्ष्मणावित्युक्ते दाशरथी राम एव प्रतीयते, नान्यः । तन्न । एकस्मिन्नेव दिवादौ 'इष गतौ, षो अन्तकर्मणि' (३ | १६, २१) इत्यनयोः पठितत्वेन विक्षिप्तत्वाभावात् । वस्तुतस्तु एषसाभ्याम् इति सिद्धे यत् परग्रहणं तन्नियतपरत्वपरिग्रहार्थम् । याभ्यां विसर्ग एव परः परभूतं विसर्गं विना ययोरुत्पत्तिर्नास्तीत्यर्थः । एवंभूतौ त्यदादावेव संभवत इत्यर्थः । अत्र स इत्यस्य घञन्तस्येषश्च सकारवर्णस्य च द्वितीयादावपि संभवात् परग्रहणं सुखप्रतिपत्त्यर्थमिति हेमकरवचनमपास्तम्, कार्यार्थत्वादिति । नन्वत्र लोप्यग्रहणं किमर्थम्, अदित्युच्यताम् । तदा अकारे अकारलोपः सिध्यति चेत्, न । 'असिद्धं बहिरङ्गम्' इति न्यायादप्राप्तेः । ननु " " स्वरानन्तर्ये नासिद्धवद्भावः” १. द्र० - अजानन्तर्थ न बहिरङ्गपरिभाषा ( चा० परि०पा० - ४६ ) ।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy