________________
२७८
कातन्त्रव्यागरणम्
[क० च०]
एषः। अथ एकारषकारसकाराणां कथन्न ग्रहणम् ? नैवम्, गमेर्माद् इति ज्ञापकादिति । परत्वादिति वृत्तिः । एष त्सरुकः, एष क्षमते' इत्यादावघोषे शिट्परेऽयं चरितार्थः कश्चरतीत्यादौ शादयः इति परत्वं न व्याहतम् । अवपूर्वात् स्यतेरिति । ननु कथमिदमुच्यते यावता अवे हृसोरिति विशेषवचनेन णप्रत्यये सति अवसाय इत्येवं स्यात् ? सत्यम् । नात्र “उपसर्गे त्वातो उः" (४/२/५२) इत्यनेन डप्रत्ययः, येन 'अवे हसोः' (४/२/५७) इत्यनेन बाधकत्वाण्णप्रत्ययस्य विषय इति । तर्हि कथमुक्तम् "उपसर्गे त्वातो डः" (४/२/५२) इति ? सत्यम् । तस्यायमभिप्रायः- उपसर्गे उपपदे तुशब्दोऽप्यर्थे 'आतः' इत्यनेन सन्ध्यक्षरान्तविधिः सूचित इत्यन्यतोऽपि चेत्यनेनेत्यर्थः ।
__ अन्ये तु 'क्वचिदपवादविषयेऽप्युत्सर्गस्यापि समावेशः' (सं० बौ० वै०, पृ० २२१) इति न्यायादित्याहुः ।अवसः कृतीति पक्षान्तरमाह - सो वेति ।व्याख्यानादित्याचार्यपारम्पर्याद् इत्यपरे। अत्र विप्रतिपन्नं प्रत्याह - त्यदादिकृतपरस्परसाहचर्यादिति ।
ननु कथमत्र साहचर्याद् यत्राव्यभिचारिणा व्यभिचारी नियम्यते तत् साहचर्यमिति न्यायस्याविषयत्वात् कुतोऽत्र विषयः उभयोरेव व्यभिचारित्वात् ? सत्यम् । एषशब्दस्तावदादेशवान्, तत्साहचर्यात् सकारोऽपि आदेशवान् गृह्यते (न सकारवर्णस्य निरासः) ततश्च लुप्तवर्णस्य सकारस्य विद्यमानत्वे तत्साहचर्याद् एषोऽपि लुप्ताकार एव गृह्यते । स च त्यदादिरेव, नतु घान्तः । ततश्च एषस्य त्यदादेः साहचर्यात् सकारोऽपि त्यदादिरेव गृह्यते । तदुक्तं महच्चरणैः
आदेशवानेष इतीह यस्मादतः सकारो यदि तत्प्रकारः।
तदा स लुप्तस्वरयुक्त एव त्यदादिरेतादृश एव युक्तः॥ नन्वेवम् एषस्यैव त्यदादित्वेन साहचर्यग्रहणात् कथं त्यदादिकृतपरस्परसाहचर्यमुक्तम् ।त्यदादिकृतसाहचर्यमिति वक्तुं युज्यते चेत्, उच्यते- इषधातोरेतच्छब्दस्य च व्यञ्जनान्तत्वादेष तावद् व्यञ्जनान्तयोनिरेव संभवति । तत्साहचर्यात् सकारोऽपि व्यञ्जनान्तयोनिरेव नान्य इति । अतो निरस्तम् अवसः सकारवर्णमात्रं च ततस्त्यदादिसकारेणापि साहचर्या देषोऽपि त्यदादिरेव । अतः सिद्धं त्यदादिकृतपरस्परसाहचर्यमिति । त्यदादिकृतस्य एतदप्युक्तं महच्चरणैः