________________
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२७७
अदिति सिद्धे लोप्यग्रहणं किमर्थम् ? 'असिद्धं बहिरङ्गम्' (कात० परि० सू० ३५) इत्यकारलोपो न स्यात् ।।७६।
[वि० प०]
एषस०। परत्वादिति । “विसर्जनीयश्चे छे वा शम्" (१।५।१ ) इत्यादीन् पूर्वान् विधीन् अयं लोपो बाधते 'पूर्वपरयोः परविधिर्बलवान्' (कात० परि० सू० ७०) इति न्यायात् । तेन एष चरतीत्यादयः सिद्धाः । अथ मेषः करोति, दास: पचति । कथमेषसाभ्यां परो विसर्जनीयो लोप्यो न भवति ? सत्यम्, अनयोरनर्थकत्वात् । तर्हि इषे वे घञि अवपूर्वात् स्यतेश्च "उपसर्गे त्वातो ड:" (४।२। ५२) इति डे सति कथम् एषो वर्तते, अवसः। तथा सो वा वर्ण इत्यत्रापीति ? सत्यम् । व्याख्यानात् त्यदादिकृतपरस्परसाहचर्याद् वा एतत्तदोरेषसयोरिह ग्रहणमित्यदोषः। 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (कात० परि० सू० १५) इति न्यायाद् अकि कृते सति 'येन विधिस्तदन्तस्य' (कात० परि० सू० ३) इति न्यायान्नसमासेऽपि प्राप्नोति । यथा परमैष चरति, परमस टीकते । तस्मात् प्रतिषेधो वक्तव्य इत्याहअप्यधिकारादिति ।
__ "रप्रकृतिरनामिपरोऽपि" (१/५/१४) इत्यतोऽपिशब्दो वर्तते, स च लोप्यशब्देन संबध्यते, तेन ‘लोपेऽपि' इति वाक्यार्थे क्वचिन्न भवतीत्यर्थः । स्वरूपग्रहणाद् वेति । अन्यथा 'एतत्तत्परो व्यञ्जने लोप्य' इति विदध्यात् । एवं च सति एषो वर्तते, अवसः कृति सो वा वर्ण इत्यत्रापि लोपस्याप्रसङ्ग एवेति । तस्माद् यदेष इति सिद्धस्य रूपस्य ग्रहणं करोति, तद् बोधयति- विरूपस्य न भवतीति । तर्हि 'अनेषो गच्छति, असो गच्छति' किमिह वैरूप्यम्, तदन्तपरिभाषया तत्रापि प्राप्नोति ? सत्यम् । नञ्तत्पुरुषस्तु उत्तरपदार्थसदृशवाची । तत्र च समासे केवलयोरनर्थकत्वात् समुदायस्यैवोत्तरपदार्थसदृशवाचित्वात् । ततोऽर्थवद्ग्रहणे नानर्थकस्य इत्यनेनैव न्यायेन लोपो न भवति । अथवा अनर्थकमेव वैरूप्यमुच्यते । तथा प्रसज्यपक्षे अभावमात्रार्थः। सोऽपि समुदायवाच्य इति तदवस्थायामेवानर्थकत्वमनयोरिति परमैष चरतीत्यादौ उत्तरपदाभिधीयमानपदार्थः परशब्देन विशिष्यते । तेनार्थान्तरं प्रतीयते इति सामञ्जस्यमेवेति ।।७६।