________________
२७६
कातन्त्रव्याकरणम् ७६. एष -सपरो व्यञ्जने लोप्यः (१।५।१५) [सूत्रार्थ]
'एष' तथा 'स' से परवर्ती विसर्ग का लोप हो जाता है यदि उस विसर्ग के बाद व्यञ्जन वर्ण हो तो ।। ७६ |
[दु० वृ०]
एषसाभ्यां परो विसर्जनीयो लोप्यो भवति व्यञ्जने परे । एष चरति, स टीकते, एष शेते, स पचति । परत्वात् पूर्वान् बाधते । अप्यधिकारात् स्वरूपग्रहणाद् वा । एषकः करोति, सकः करोति, अनेषो गच्छति, असो गच्छति । अकि नसमासे न स्यात् ।। ७६।
[दु० टी०]
एषसः । एष च स च एषसौ, ताभ्यां पर इत्यल्पस्वरस्यापि परत्वम्, गमकत्वात् । एष चरतीत्यादि | "विसर्जनीयश्चे छे वा शम्" (१।५।१) इत्यादितोऽघोषवतोश्चेति पर्यन्तान् पूर्वोक्तान् परत्वादयं लोपो बाधते इत्यर्थः । येन विधिस्तदन्तस्यापि - परमैष चरति, परमस शेते । मेषः करोति, दासः पचतीति ‘अर्थवद्ग्रहणेनानर्थकस्य' (कात० परि० सू० ४) इति । कथम् इषेर्भावे घञि अवपूर्वस्यते: “उपसर्गे त्वातो डः" (४। २। ५२) इति एषो वर्तते, अवसः कृती, सो वा वर्ण इत्यादि । सत्यम्, एतत्तदोरेषसयोरिह ग्रहणं त्यदादिकृतपरस्परसाहचर्यात् ।
अप्यधिकारादित्यादि । प्रकृत्यन्तः पातीति अक्प्रत्ययः प्रकृतिग्रहणेन गृह्यते । तथा च "अद्व्यञ्जनेऽनक" (२/३/३५) इति वर्जनमुच्यते - लोप्योऽपि भवति, न भवति च, प्रयोगानुसारेणेत्यर्थः । नञोऽसमासे तु लोप्य एवं-नैष गच्छति, न स गच्छति ।मन्दमतिबोधहेतुरयं पक्ष उच्यते । स्वरूपग्रहणाद् वेति एतत्तदोर्ग्रहणेनाक्प्रत्ययस्यापि ग्रहणं स्यात् । एषसयोः स्वरूपग्रहणं कृतम् । कुतो विरूपहेतौ अकि सति भवतीत्यर्थः।
ननु नसमासे किमिह वैरूप्यं चेत्, नैवम् । नञ्तत्पुरुषस्य उत्तरपदार्थसदृशवाचिनञमन्तरेण तदर्थतया एतावनर्थको अभावमात्रसाधने प्रसज्यपक्षेऽपि तथैवेति ।