________________
२८४
कातन्त्रव्याकरणम्
ननु विसर्जनीयग्रहणमेव एषसपरग्रहणनिवृत्त्यर्थमेवोक्तम्, कुतो विसर्जनीयाधिकारनिवृत्त्यर्थमेवोच्यते । अन्यथा एष इह इत्यादावेवास्य विषय: स्यात् । अत्र मूर्खाः- एवं सति सूत्रमेवाकृतं स्यात् 'असिद्धं बहिरङ्गमन्तरङ्गे' (कात० परि०सू० ३५) इत्यनेनैव सिद्धत्वात् । ननु ‘क इह' इत्यादावपि तत्सम्भवात् "स्वरानन्तर्ये नासिद्धवद्भावः' इति चेत्, प्रकृते दीयतां दृष्टिः । अन्ये तु पुनः शब्देन करणतयैव नेहानवृत्तिः ‘एष स' इति । अत्र भट्टाः-विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाद् वाऽनुवर्तते ।
नन्वित्यादि । अथ पूर्वस्मिन् पाठे व्यञ्जनानुवृत्त्या इत्यत्र द्विर्भावः स्यात्, ननु इच्छतीत्यादिषु ? सत्यम् । 'अनृच्छ' इति ज्ञापकात्, नतु व्यञ्जनस्य प्रवृत्तिः । अथवा द्विर्भावसूत्रं रप्रकृतिरित्यनन्तरं पठनार्थम् इत्यस्मिन् पक्षे पञ्जी न सङ्गच्छते, अतिपूर्वत्वात् ? सत्यम् । अतिपूर्वेणापि पूर्वत्वं न विहन्यते इति न दोषः ।।७७ ।
[समीक्षा]
'कः + इह, देवाः+ आहुः' इत्यादि अवस्थाओं में कातन्त्रकार के मतानुसार विसर्ग का लोप होकर ‘क इह, देवा आहुः' आदि शब्दरूप सिद्ध होते हैं । यहाँ क्रमशः 'अ' को ए (अवर्ण इवणे ए १।२।२) और आ को दीघदिश ("समानः सवणे दीर्घाभवति परश्च लोपम्" -१।२।१) प्राप्त होता है । उसके वारणार्थ कातन्त्रकार परिभाषासूत्र द्वारा विसर्ग का लोप हो जाने पर सन्धि का अभाव निर्दिष्ट करते हैं |
पाणिनीय व्याकरण में पठित "पूर्वत्रासिद्धम्" (८। २। १) सूत्र की असिद्ध विधि के अनुसार यहाँ सन्धि नहीं होती । सिद्धान्तकौमुदी में कहा भी गया है (अच्सन्धि० ८। ३। १९)- "पूर्वत्रासिद्धमिति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः"।
इस प्रकार सूत्र - कार्य-संख्या में उभयत्र साम्य होते हुए भी कातन्त्रीय प्रक्रिया अधिक स्पष्ट और संक्षिप्त है | पाणिनीय प्रक्रिया में सूत्रों के पौर्वापर्य का परिज्ञान करना आवश्यक होने से ज्ञानगौरव विद्यमान है ।
१. 'नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः' (व्या० परि० १०, ८०)।