Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 382
________________ २९५ कातन्त्रपरिशिष्टम् ११. लुक् सवर्णवच्च ऋतृतोः परयोर्ककारस्य लुक् सवर्णवच्च कार्यं भवति । चकाराद् यथाप्राप्तं प्रकृतिश्च भवति । पितृणम्, पितॄणम्, पितृऋणम् । होल्लकारः, होलृकारः, होतृलृकारः । क्वचित् पदान्तविधिष्वपि स्थानिवदिति न तृतीयः । नित्यसमासे तु प्रकृतिर्नास्तीति रूपत्रयमेव । पितृच्छी, पितॄच्छी, पितृच्छी । पदान्तप्रकरणत्वात् पितॄन् ।।११। १२. उपसर्गावर्णलोपो धातोरेदोतोः धातोरेदोतोः परयोरुपसर्गाणामवर्णस्य लोपो भवति । प्रेजते, परेजते । प्रोणति, परोणति । उपसर्गस्येति किम्? ममैलयति, सन्ध्यौणति | उपसर्गाणामधातोरसम्भवाद् धातुस्पष्टार्थम् । कथं प्रगतः एजकः प्रैजकः, प्रगतः ओणकः प्रौणकः? कर्तृयोगित्वेनानुपसर्गत्वात् ।। १२। १३. इणेधत्योर्न अनयोः परयोरुपसर्गावर्णग्य लोपो न भवति । प्रैति, परैति, प्रैधते, परैधते । तिप्पाठः सुखार्थः ।।१३। १४. नामधातोर्वा नामधातोरेदोतोः परयोरुपसर्गावर्णस्य लोपो भवति वा । प्रेणीयति, प्रैणीयति । एणीयति, ऐणीयति । प्रोजायते, प्रौजायते । प्रोङ्काम्यतीति नित्यम्, परत्वात् ।।१४। १५. एषैष्ययोः प्रस्य एषैष्ययोः परतःप्रस्याकारस्य लोपो भवति वा प्रेषः,प्रेषः । प्रेष्यः,प्रैष्यो दासः। अन्यत्र प्रेषणम् । प्रेषयतीति नित्यम् (स्यात्) । एष्यग्रहेणन यपो ग्रहणं नेच्छन्ति । प्रेष्य गतः । इषेरिनन्तात् क्तो यप् । प्रस्येति किम् ? उपेषः, उपेष्यः ।।१५। १६. ओमि च नित्यम् ओमि च परतो नित्यमवर्णस्य लोपो भवति । अद्योम् ब्रूमः, तदोम् ब्रूमः । ओमित्यभ्युपगमादिष्वव्ययम् ।।१६। १७. एवे इवार्थे इवार्थोऽत्र सादृश्यमसम्भावना च । इवार्थे एवशब्दे परे नित्यम् अवर्णस्य लोपो भवति । चर्मेव रज्जुः । शालेव शाखा । तदद्येवाभूत, तत्तदेवाभूत् । बालेव गच्छ, मालेव

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452