________________
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः
२८१ २. स टीकते | सः + टीकते । 'स' से परवर्ती विसर्ग का लोप, व्यञ्जन वर्ण 'ट्' के पर में रहने पर।
३. एष शेते । एषः+ शेते । शकार - व्यञ्जन वर्ण के पर में रहने पर 'एष' से परवर्ती विसर्ग का लोप ।
४. स पचति । सः+ पचति । व्यञ्जन वर्ण 'प्' के पर में रहने पर 'स' से परवर्ती विसर्ग का लोप ।।७६।
७७. न विसर्जनीयलोपे पुनः सन्धिः (१। ५। १६) [सूत्रार्थ]
विसर्ग का लोप हो जाने पर प्राप्त होने वाला सन्धिकार्य प्रवृत्त नहीं होता है ।।७७।
[दु० वृ०]
विसर्जनीयलोपे कृते पुनः सन्धिर्न भवति । अन्यलोपे तु भवत्येव । क इह, देवा आहुः, भो अत्र । विसर्जनीयाधिकारे पुनर्विसर्जनीयग्रहणम् उत्तरत्र विसर्जनीयाधिकारनिवृत्त्यर्थम् । तेन एषच्छात्रेण द्विर्भावः सिद्धः ।।७७।
[दु० टी०]
न विसर्जनीय०। सन्धानं सन्धिः । उत्कृष्टो वर्णानां सन्निकर्ष उच्यते । तद्विषयमपि कार्यं समानदीर्घादिसन्धिरित्यभिमतम्, उपचारात् । एतेनायमों भवति - विसर्जनीयलोपे दीर्घादि सन्धिकार्यं न स्यात् । पुनःशब्देनैतत् सूचितम् | यत्रान्यविभक्त्यादेर्लोपस्तत्र सन्धिकार्यं भवत्येव । यथा दण्डस्याग्रं दण्डाग्रमिति ।
ननु कथमत्र सन्धिकार्यस्याभावशङ्का इति चेत् ? सत्यम् । “समानः सवर्णे" (१/२/१) इत्यौपश्लेषिक एवाधारसप्तमीत्युक्तम् । यथा दण्डस्याग्रमित्यादिषु स्यशब्देन व्यवधानादनुपश्लेषो भवति, तथा लुप्तायामपि विभक्तौ तत्काले वर्णशून्येनापि व्यवधानमस्तीति दण्डाग्रम् इत्यादि दीर्घत्वं न प्राप्नोति ।
ननु कथमत्र व्यवधानं लुप्तायामपि विभक्तौ तदनन्तरभावित्वात् तत्कालम् अग्रशब्दाकार एवातिक्रामति, तेनाबाधित एव दीर्घत्वम् ? सत्यमेतत् । तथापि मन्दधियां