________________
२४८
कातन्त्रव्याकरणम्
[क०च०]
टे ठे० । ननु अकारयुक्तयोरेव टठयोर्निमित्तता सप्तम्या प्रतिपाद्यते, ततश्च कथं 'कष्टीकते' इत्यादिषु षकारः स्यात् ? सत्यम्, "विसर्जनीयश्चे छे वा शम्" (१५१) इति निर्देशाद् अकारयुक्तादन्यत्रापि भवतीत्यदोषः । विकल्पार्थश्च न भवति, वा - शब्दः पुनरर्थे । अत्र हेतुमाह- प्रतिसूत्रमित्यादि । ननु कथं प्रतिसूत्रे वाशब्दोपादानं समुच्चये हेतुः स्यात्, तस्य स्पष्टार्थकत्वात् । सा हि स्पष्टार्थता समुच्चये विकल्पे च सम्भवति? सत्यम् । यदि वाशब्दो विकल्पार्थः स्यात् तदा वाग्रहणमपि न कृतं स्यात् । तर्हि कुतो विकल्पप्राप्तिर्भविष्यतीत्याह - वर्ग इत्यादि । तस्माद् वाग्रहणबलादेव विकल्पार्थो न भवतीति भावः। ____ ननु वाऽनुवृत्त्या टकारस्य ठकारस्य च उभयोरेव विकल्पः क्रियते । अत्र तु ठकारसम्बन्धिना वाशब्देन ठकार एव विकल्पः साध्यते, तत् कथं वाऽधिकारे निर्वाहः स्यात् । तस्माद् विकल्प एव कथं न स्यात् । किं च यदि समुच्चयार्थ एव भविष्यति तदा निःसन्देहार्थं चकारग्रहणं कृतं स्यात् ? सत्यम्, यदि ठकारनिमित्तविकल्प एव भविष्यति तदा व्यवस्थितविभाषयैव सिध्यति, किं पुनरत्र वा-ग्रहणेन ? किं च व्याप्तिन्यायादुभयोरेव विकल्पार्थो भविष्यति । किं वा व्याप्तिन्यायात् समुच्चयातैव युक्ता यद् वा यदीष्टो विकल्पः स्यात् तदा निःसन्देहार्थं नवा-ग्रहणमेव कृतं स्यात् ।। ६३ ।
[समीक्षा]
'कः + टीकते, क+ ठकारेण' इस स्थिति में कातन्त्रकार सीधे ही विसर्ग को षकारादेश करके 'कष्टीकते, कष्ठकारेण' शब्दरूप निष्पन्न करते हैं, परन्तु पाणिनि विसर्ग को सकारादेश करने के बाद ही सकार के स्थान में षकार का विधान करते हैं । क्योंकि उनके निर्देशानुसार स् के स्थान में श् आदेश प्रवृत्त होता है -"स्तोः श्चुना श्चुः" (८। ४। ४०)
[विशेष]
सूत्रपठित 'वा' को टीकाकार- पञ्जीकार-कलापचन्द्रकार ने समुच्चयार्थक सिद्ध किया है।