________________
२५७
सन्धिप्रकरणे पनमो विसर्जनीयपादः [क०च०]
उम ० । 'वा' न वर्तते इति पूर्वसूत्रे पुनर्वाग्रहणस्य वाधिकारनिवृत्त्यर्थत्वात् । ननु 'पटवः सन्ति' इत्यात्रास् - धातोरस्तेरादेरित्यकारलोपे स्थानिवद्भावात् कथमुत्वं न स्यादिति चेत्, न । “न पदान्त०" (पा०१।१।५८) इत्यादिना स्थानिवद्भावनिषेधात् । अथ कथमिदमुच्यते चतुर्थपाद एव "नोऽन्त०"(१।४।८) इत्यस्यान्तग्रहणेन पदान्ताधिकारस्य दूरीकृतत्वात् चेद् उच्यते । “अघोषवतोश्च०" (१५।८) इत्यत्र पदान्ताधिकारनिवृत्त्यर्थं क्रियमाणश्चकारो बोधयति- अन्तग्रहेणनान्तरितोऽप्यत्र प्रकरणे पदान्ताधिकारोऽस्तीति “अल्पादेर्वा" (२१३१) इत्यत्र पञ्जिकायां वक्ष्यति । 'चतुष्टया' इत्यन्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तत्वे सति "ते थे वा सम्" (१ । ५ । ३) इत्यनेन सकार इति । कथं तर्हि ‘सर्पिष्षु' इत्यत्र पदमध्येऽपि पररूपमिति चेत्, न । आगमग्रहणस्य बहुलार्थत्वादिति विद्यानन्दः। तन्न | "अघोषवतोश्च" (१।५।८) इत्यत्र चकार उक्तसमुच्चयमात्र इति वक्ष्यमाणटीकाविरोधात् । तस्मात् पारिशेष्यादेवात्र पदान्तकार्यप्रसक्तिः । अत एव "विसर्जनीयश्चे छे वा शम्" (१।५।१) इत्यत्रोक्तम्- उमकारयोर्मध्य इति यावत् पदान्ते एव संभवतीति । किं च विभाषया वृत्तौ पदान्तीयकार्यमात्रस्यैव प्रतिषेधः प्रतिपत्तव्यः इति न केवलं पदान्तनिबन्धनसूत्रीयकार्य मित्यर्थः ।।६८।
[समीक्षा]
'कः + अत्र, कः + अर्थः' इस स्थिति में कातन्त्रकार के अनुसार विसर्ग को उ तथा "उवणे ओ" (१।२। ३) से ओकारादेश होकर 'कोऽत्र, कोऽर्थः' आदि शब्दरूप सिद्ध होते हैं । पाणिनि के अनुसार विसर्ग होने से पूर्व ही सु-प्रत्ययस्थ स् को रु आदेश प्रवृत्त होता है । इस प्रकार पाणिनि के निर्देश में पदसिद्धि से पूर्व ही सन्धिविधान करना संगत प्रतीत नहीं होता ।
[विशेष]
(१) 'पुनः + अत्र' इस स्थिति में विसर्ग के स्थान में उकारादेश न होकर 'पूर्वपरयोः परविधिर्बलवान्' (कात० परि०सू० ७०) इस न्याय के अनुसार "रप्रकृतिरनामिपरोऽपि" (१। ५। १४) सूत्र द्वारा रकारादेश होता है।
(२) "उमकारयोः" इतने सूत्र से ही अभीष्टसिद्धि हो सकती थी, फिर 'मध्ये' ग्रहण व्यर्थ होकर यह ज्ञापित करता है कि कहीं पर एकत्र दीर्घ आकार के रहने