________________
२३२
कातन्त्रव्याकरणम्
चवर्गा देश उपपन्न होता है । जैसे – 'राज्ञः, मज्जति' इत्यादि । यहाँ पदान्तस्थ न् के स्थान में ञ् आदेशविधानार्थ प्रकृत सूत्र यथावत् रूप में बनाना उचित ही है।
[रूपसिद्धि]
१-४. भवाञ्जयति, भवाञ्झासयति, भवाञकारेण, भवाशेते । भवान् + जयति, भवान् + झासयति, भवान् + अकारेण, भवान् + शेते । यहाँ क्रमशः 'ज्-झ्-ञ्-श्' वर्गों के परवर्ती होने पर पदान्तवर्ती न् को ञ् आदेश ।। ५७।
५८. शिन्चौ वा (१।४।१३) [सूत्रार्थ]
पदान्तवर्ती न् के स्थान में विकल्प से 'न्व्' आदेश होता है, श् वर्ण के पर में रहने पर | यह ज्ञातव्य है कि 'न्च' आदेश न होने पर उक्त सूत्र “जझञशकारेषु अकारम्” (१।४।१२) से ञकारादेश होगा || ५८ ।
[दु० वृ०]
नकारः पदान्तः शि परे न्चौ वा प्राप्नोति अकारं वा । भवाञ्छूरः, भवाञ्च्शूरः, भवाञ्शूरः । कुर्वञ्छूरः, कुर्वञ्च्शूरः, कुर्वशूरः । प्रशाञ्छयनम्, प्रशाञ्च्शयनम्, प्रशाञ्शयनम् । णत्वं गत्वं च न स्यात् । अनुस्वारो वर्गान्तश्च स्यादेव । वात्र समुच्चये ।। ५८।
[दु० टी०]
शि न्चौ । नकारश्चकारान्तो भवतीत्यर्थः । नकारश्चकारश्च यदीह पृथग्भावेनादिश्यते, तदा नकारस्य नकारकरणमनर्थकम् । अथ यदि नकारस्थित्यर्थं नकारकरणम्, तर्हि वाशब्द इह विकल्पार्थ एव भवन् रूपत्रयमवधारयिष्यति । तर्हि ञकार एव कृत एकमादेशं विकल्पयिष्यति ? सत्यम् | साध्यतया चकारः कृतोऽनुविधायकतया च नकार इति । वर्णद्वयापेक्षया तु द्विवचनं यथाश्रुतवर्णपरिग्रहार्थमिति । रषाभ्यां नस्य णत्वं चस्य गत्वं च न स्यात् ।
ननु विरामे व्यञ्जनादौ च प्रत्यये गत्वं वक्ष्यति, तत् कथम् इहेति ? सत्यम् । प्रशामः शयनं प्रशाञ्छयनमिति "व्यञ्जनान्तस्य यत्सुभोः" (२।५।४) इत्यनेन स्यात् । तर्हि नस्यानुस्वारे वर्गान्तश्च कथमिति अनुस्वारस्य हि व्यक्तौ प्रवृत्तत्वात् । द्विवचनस्य