________________
२४२
कातन्त्रव्याकरणम् शब्द के परवर्ती रहने पर सम् के मकार को मकार ही होता है; परन्तु कलापव्याकरण में ऐसा सूत्र नहीं है, जिससे वृत्तिकार दुर्गसिंह ने इसका समाधान प्रकारान्तर से इस प्रकार किया है कि संज्ञापूर्वक की गई विधि अनित्य होती है- 'सज्ञापूर्वको विधिरनित्यः' (कालापपरि० सू० ३८)। इस सूत्र में 'अनुस्वार' यह निर्देश संज्ञापूर्वक है, अतः इस विधि के अनित्य होने के कारण 'सम्राट' आदि रथलों में अनुस्वारादेश नहीं होगा।
[रूपसिद्धि]
१. त्वं यासि । त्वम्+ यासि | व्यञ्जन वर्ण के पर में रहने पर पदान्तवर्ती मकार को अनुस्वार आदेश ।
२. त्वं रमसे । त्वम्+ रमसे । व्यञ्जन वर्ण के पर में रहने पर पदान्तवर्ती मकार को अनुस्वार आदेश ।। ६०।
६१. वर्गे तद्वर्गपञ्चमं वा (१।४।१६) [सूत्रार्थ]
किसी भी वर्गीय वर्ण के पर में रहने पर पदान्त अनुस्वार को उसी वर्ग का पञ्चम वर्ण आदेश होता है ।। ६१ ।।
[दु०वृ०]
अन्तोऽनुस्वारो वर्गे परे तद्वर्मपञ्चमं वाऽऽपद्यते । त्वङ्करोषि, त्वं करोषि । त्वञ्चरसि, त्वं चरसि । पुम्भ्याम् | वर्ग इति किम् ? त्वं लुनासि ।। ६१ ।
॥ इति दौगसिंद्यां वृत्त प्रथमे सन्धिप्रकरणे चतुर्थो वर्गपादः समाप्तः ॥
[दु०टी०]
वर्मे । ननु प्राङ् नकारः कार्यो कथमनुस्वारः कार्यितया प्रवर्तते ? सत्यम् । व्यञ्जने मकारस्यानुस्वारत्वाद् वर्गे तद्वर्गपञ्चमः खलु पक्षे तस्य बाधक इति । तर्हि व्यञ्जन इति तत्र व्यक्तौ तेनानुस्वारसामान्यमिह सिद्धम् । 'जंगम्यते, जगम्यते' इति सिद्धमेव | ननु तद्वर्गपञ्चमग्रहणं किमर्थम्, श्रुतत्वात् तस्यैव निमित्तभूतस्य वर्गस्य भविष्यतीति परिभाषाश्रयणमपि प्रतिपत्तिगौरवमेव । तर्हि तद्ग्रहणमेवास्ताम् ? सत्यम् । स चासौ वर्गश्चेति तवर्गः, तस्य पञ्चमस्तद्वर्गपञ्चमः इति अतिशयबालप्रबोधार्थः । सानुनासिकान्तस्थायां पररूपं भाषायां न दृश्यते इति 'त्यँय्यासि, त्वल्लिखसि, त्वव्वहसि' । हे मनयवलपरे मनयवला वा वक्तव्याः । किम् ह्यलयति, किं ह्मलयति । किँन् हुते, किं हुते । किंय ह्यः, किं ह्यः । किँव् ह्वलयति, किं ह्वलयति । किंल् ह्लादयति, किं ह्लादयति ।