________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
२४१ तु नेदं प्रत्युदाहरणं किन्तु प्रथमकक्षायामुक्तम्, प्रत्युदाहरणं तु ‘यन्ता, गन्ता' इति । ननु तेनानेन वानुस्वारे को विशेषः? सत्यम्, यद्यनेनानुस्वारः क्रियते, तदा “वर्गे तद्वर्गपञ्चमो वा" (१।४।१६) स्यादित्याहुः । अपरे तु अत्र पदान्ताधिकारस्य सम्बन्धेऽसत्यपदान्ते पदान्ते च व्यञ्जने परेऽनेनानुस्वारे सिद्धे यत् पुनस्तत्र मकारोपादानं 'सिद्धे सत्यारम्भो विधिनियमाय विकल्पाय ज्ञापकाय वा' (कलापव्या०, पृ०२२३) इति न्यायात् तन्नियमार्थम् । तथाहि- अनन्त्य एव धुटि परेऽनुस्वारो न त्वन्त्ये धुटि परे । एवं च सति · त्वङ्करोषि' इत्यादिष्वेव धुड्ग्रहणस्य व्यावृत्तिः स्यादिति ।
यत्तु 'गम्यते' इत्यत्र व्यावृत्तिर्दर्शिता, तत्तु प्रथमकक्षायामेवेत्याहुः, नैवम्, सूत्रोपात्तधुड्ग्रहणस्यैव नियमयोग्यत्वात् । तथा चानन्तो धुट्येव नाधुटीति नियमे सति गम्यते इत्यत्र नियमबलादेव न भविष्यति, किं पुनरत्र प्रत्युदाहियते इति चेत्, न । मकारस्य कार्यित्वेन प्राधान्यात् तद्विशेषणस्यान्त्यग्रहणस्यापि प्राधान्येन तस्यापि नियमः संभवतीति विनिगमनाविरहान्नियम एव भविष्यतीति । न चानन्त्य एव धुट्येवेति उभयनियम एवास्तामिति वाच्यम्, गौरवात् । एवं सत्यत्रान्तग्रहणाभावेऽन्त्यानन्त्यसामान्येनैवानेन सिद्धे यत् तत्र मकारग्रहणं तद् धुटि परे विकल्पार्थं भविष्यति । ततश्चानेन धुटि परे नित्ये प्राप्तेऽन्तग्रहणमत्र गम्यत इत्यादावनुस्वारनिवारणार्थम् इति न कोऽपि दोष इति । हेमकरस्तु हम्मतीति प्रत्युदाहर्तव्यम् इति यदाह तद् दुष्टमेव गम्यते इत्यनेन समानत्वादिति ।। ६० ।
[समीक्षा]
'त्वम्+ यासि, त्वम्+ रमसे' इस स्थिति में दोनों ही व्याकरणों में म् के स्थान में अनुस्वारादेश होता है, तथापि कलापव्याकरण के विधान में कार्यां मकार का प्रथमान्त तथा कार्य अनुस्वार का द्वितीयान्त निर्देश किया गया है। पूर्वाचार्यों की यही पद्धति (शैली) थी । इसके विपरीत पाणिनि कार्टी का षड्यन्त तथा कार्य का प्रथमान्त निर्देश करते हैं।
[विशेष]
ऐसा देखा जाता है कि 'सम्राट्, सम्राजौ' आदि स्थलों में म् के स्थान में अनुस्वारादेश प्रवृत्त नहीं होता है । एतदर्थ पाणिनीयव्याकरण में तो "मो राजि समः क्वौ" (पा०८। ३।२५) सूत्र बनाया गया है, जिसके अनुसार क्विप्प्रत्ययान्त राज्