________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
९९
बनाया है
| अनुस्वार सर्वत्र स्वरवर्ण के ही बाद में आता है । अतः शर्ववर्मा ने सूत्र में 'अ' स्वर के साथ लगाकर इसे दिखाया है, जबकि पाणिनीय व्याख्याकार शिक्षावचन के अनुसार ऐसी व्याख्या करते हैं -
जिसका स्वतन्त्र उच्चारण न होकर स्वर के साथ मिलकर होता है उसे अनुस्वार कहते हैं | वर्णसमाम्नाय के क्रमानुसार सन्ध्यक्षर संज्ञा के ही पश्चात् इसे कहना चाहिए था, क्योंकि स्वरवर्णों के ही अनन्तर विसर्ग- अनुस्वार पढ़े गए हैं, तथापि व्यञ्जनादि संज्ञाओं के अनन्तर इसे रखकर यह ज्ञापित किया गया है कि अनुस्वार स्वरात्मक तथा व्यञ्जनात्मक उभयविध होता है || १९|
२०. पूर्वपरयोरर्थोपलब्धौ पदम् (१।१:२० )
[सूत्रार्थ]
प्रकृति और विभक्ति से प्राप्त समुदाय रूप अर्थ की पदसंज्ञा होती है || २० | [दु० बृ०]
पूर्वपरयोः प्रकृतिविभक्त्योरर्थोपलब्धौ सत्यां समुदायः पदसंज्ञो भवति । तेऽत्र, यजन्तेऽत्र । उपलब्धिग्रहणं विभक्त्यर्थम् । पदप्रदेशाः - " एदोत्परः पदान्ते लोपमकारः” (१।२।१७) इत्येवमादयः || २० |
[दु० टी०]
पूर्व० । उपलम्भनमुपलब्धिः । षानुबन्धत्वादङि प्राप्तेऽपि लभेः क्तिरपि दृश्यते । पद्यते गम्यतेऽर्थोऽनेनेति पदम् अभिधानादल नपुंसकत्वं च । पूर्वपरयोः समुदायोऽर्थप्रतिपत्तिहेतुः पदं समुदायश्च वर्णित एव । पूर्वाः प्रकृतयः परा विभक्तयश्च तत्रेतरेतरप्रत्ययव्यावृत्तावपि अनुवर्तमानाः प्रकृतयोऽनुवृत्त एवार्थे गृहीतसम्बन्धास्तमर्थं प्रतिपाद्य प्रत्ययैः सह सङ्गच्छन्ते, नहि प्रतीयमानाः शब्दा अर्थं (स्वार्थम्) प्रतिपादयन्ति । प्रत्ययाः पुनरितरेतरप्रकृतिव्यावृत्तावपि अनुवर्तमानाः सन्तः अनुवृत्त एवार्थे गृहीतसम्बन्धा अपि प्रकृतिसङ्गताः पदभावमापन्नाः प्रकृत्यर्थविशिष्टमेव स्वार्थं प्रतिपादयन्ति, न पृथगनुवर्तनेन अर्थम् ।
यदि पुनः (प्रतिपादयेयुस्तदा ) स्वार्थप्रतिपत्तिकाल एव स्वश्रुतेरुपरमः कुत इदानीं प्रकृतिस्मृत्यानुसन्दधीरन्निति, न खलूच्चारणमन्तरेण उपरतश्रुतयोऽनुसन्धीयन्ते । किमर्थं पुनः प्रत्ययानामनुवृत्तेऽर्थे सम्बन्धग्रहणं यदि न तं प्रतिपादयन्तीति क