________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
२२३ वयं तु ब्रूमः- स्वसिद्धान्तमुक्त्वा कस्यचित् सिद्धान्तमाह - पदान्तविधीति । वाशब्देनात्रास्वरसः सूचितः । अस्वरस एव कुत इति चेद् उच्यते - पदान्तत्वे सिद्धे स्थानिवद्भाव उपपद्यते । स्थानिवद्भावनिषेधे तु पदान्तत्वम् इत्यन्योऽन्याश्रयत्वादिति, कुत्र तर्हि पदान्तत्वे स्थानिवद्भावनिषेधस्य विषय इति चेद् यत्रान्योऽन्याश्रयो नास्ति । यथा- 'अग्नयः सन्ति' इत्यत्र अस्धातोरकारस्य स्थानिवद्भावनिषेधान्नोत्वमिति ।
अत्र गुरवः- नात्र इतरेतराश्रयदोषः, यतो नकारस्य पदान्तता अस्त्येव, किन्तु स्थानिवद्भावनिषेधेनापदान्तता क्रियते इति । अथ पदान्ताधिकृतेर्दूरत्वाच्च अन्तशब्दस्य पदान्तोऽर्थः, सोऽपि न वक्तव्यः इत्याह - नन्वित्यादीति हेमकरः । तन्न । पूर्वसूत्रेऽपि पदान्ताधिकारः प्रवर्तते, ततो दूरत्वाभावाद् अन्यदपि बहु प्रलपितम् । तन्न दूषितं ग्रन्थगौरवभयात् । व्यक्ती प्रवृत्तत्वादिति । ननु अनुस्वारशकारयोरपि व्यक्तिव्याख्या घटत इत्याह-परत्वादिति |चकारछकारमादाय विशेषसूत्रमिदमिति परत्वेऽधिकमाह-अनन्त्य इति । सकृद्गतन्यायादिति । सकृद् एकवारम्, यद् बाधितं तद् बाधितमेव । अतो विप्रतिषेधो गम्यते इत्यर्थः ।।५३।
[समीक्षा]
'भवान् + चरति, भवान् + छादयति, भवान् + च्यवते, भवान् + छ्यति' इस अवस्था में पाणिनीय प्रक्रिया के अनुसार "नश्छव्यप्रशान्" (८।३।७) से नकार के स्थान में रु आदेश, “अत्रानुनासिकः पूर्वस्य तु वा" (८।३।२) से वैकल्पिक अनुनासिक, पक्ष में "अनुनासिकात् परोऽनुस्वारः" (८।३।४) से अनुस्वारागम, "खरखसानयोर्विसर्जनीयः"(८।३।१५) से विसर्गादेश, "विसर्जनीयस्य सः"(८।३।३४) से विसर्ग को सकार तथा "स्तोः श्चुना श्चुः" (८।४।४०) से शकारादेश होने पर 'भवाँश्चरति, भवांश्चरति, भवाँश्छादयति, भवांश्छादयति' शब्दरूप सिद्ध होते हैं।
कातन्त्रीय प्रक्रिया के अनुसार न् के स्थान में केवल अनुस्वारपूर्वक श् आदेश किए जाने पर ही उक्त रूपों की निष्पत्ति मानी जाती है। दोनों प्रक्रियाओं में से पाणिनीय प्रक्रिया विस्तृत होने के कारण दुर्बोध भी हो सकती है, परन्तु कातन्त्रीय प्रक्रिया में संक्षेप और सरलता सन्निहित होने से लाघव स्पष्ट है।
[विशेष]
१. "तेभ्य एव हकारः पूर्वचतुर्थं न वा” (१।४।४) इस सूत्र में पठित 'वा' को व्यवस्थितविभाषा के रूप में माने जाने के कारण 'प्रशान् चरति' इत्यादि में