________________
१८१
सन्धिप्रकरणे तृतीयः ओदन्तपादः कथम् अन्यथा 'इयेष' इत्यत्र इव!वर्णान्तस्य विधीयमान इयुवादेश इकारमात्रस्य स्यादिति । किञ्च व्यपदेशिवद्भावे न अकारादीनां केवलत्वं व्याहन्यते, किन्तु व्यपदेशान्तरमारोप्यते । नहि माणवकस्य वह्नित्वारोपो माणवकत्वं व्याहन्तीति । अतस्तदाश्रितमेव कार्यं भवत्येव, कुतोऽत्र बाधकः।
वस्तुतस्तु केवलार्थमित्यनेन तदन्तविध्यभावोऽभिप्रेतः । ततश्च व्यपदेशिवद्भावोऽपि सुदूरपराहत एव । ईषतुः, ऊषतुः इत्यभ्यासे कथं दर्शितमिति पूर्वपक्षोऽपि फलशून्य एव विशेषाभावात् । अत्र च अकारं प्रति निपातविशेषणस्य प्रयोजनम् - हे अ आटतुरित्यादौ वेदितव्यम् । कथन्तर्हि वृत्तौ नोक्तमिति चेत्, कतमोऽयं पूर्वपक्षावसरः। कश्चिद् वदति - आटतुरित्यत्रैवाकारस्य प्रश्लेषणं बोध्यमिति । नव्यास्तु - आटतुरित्यत्रैव दीर्घ एव प्रयोजनम्, प्रकरणाश्रयणस्य निष्फलत्वात् । तथा च प्रकरणाश्रयणं कष्टमिति पूर्वसूत्रे टीकायामुक्तम् ।।४२ ।
[समीक्षा]
'नो + अत्र, अहो + आश्चर्यम्, अ+ अपेहि, इ+ इन्द्रं पश्य' आदि स्थलों में पाणिनीय व्याकरण के अनुसार ओकारान्त तथा एकाच निपातों की प्रगृह्य संज्ञा होती है (अ० १।१।११-१५), तदनन्तर "प्लुतप्रगृह्या अचि नित्यम्" (पा० ६।१।१२५) से प्रगृह्यसंज्ञक का प्रकृतिभाव होता है । कातन्त्रकार विना ही प्रगृह्यसंज्ञा किए निपातों का प्रकृतिभाव करते हैं । इससे स्पष्टतः पाणिनीय-प्रक्रिया में गौरव तथा कलाप की प्रक्रिया में लाघव सन्निहित है।
[विशेष]
१. 'आ' निपात को भिन्न-भिन्न अर्थों में सानुबन्ध और निरनुबन्ध दो प्रकार का माना गया है।
[रूपसिद्धि]
'नो +अत्र, अहो + आश्चर्यम्, अथो + एवम्, अ+ अपेहि, इ+ इन्द्रं पश्य, उ + उत्तिष्ठ, +आ+ एवम्' इन ७ स्थलों में प्रकृतसूत्र से प्रकृतिभाव होता है । अतः 'नो + अत्र, अहो + आश्चर्यम्, अथो + एवम्' में “ओ अव्” (१।२।१४) सूत्र से अव् आदेश 'अ+ अपेहि, इ + इन्द्रं पश्य, उ + उत्तिष्ठ' में "समानः सवर्णे दीर्धीभवति, परश्च लोपम्" (१।२।१) से सवर्णदीर्घ- परलोप तथा ‘आ + एवम्' में "एकारे ऐ ऐकारे च" (१।२।६) से ऐकारादेश- परलोप नहीं होने पाता ।।४२।।