________________
सन्धिप्रकरणे प्रथमः सज्जापादः
१०१ अन्वग् भवति व्यञ्जनमिति, क + खनति, क , फलति । योगवाहत्वं च प्रतिपादितमनुस्वारसंज्ञाप्रस्तावे । ननु व्यञ्जनं परं वर्णं नयेदित्युक्ते स्वरस्य कः प्रसङ्गः, येनास्वरमिति प्रतिषिध्यते इत्याह - स्वरूपमेतद् इति । स्वरूपाख्यानं कृतमित्यर्थः ।।२१।
[क० च०]
व्यञ्जनम् । अस्वरमिति तत्पुरुषस्योत्तरपदप्रधानत्वाद् द्वितीयैकवचनं पदम् । न तु न विद्यते स्वरो यत्र व्यञ्जन इति वररुच्यनुसारान्नपुंसके लुप्तप्रथमान्तं पदमिति वाच्यम् | सस्वरव्यञ्जनस्य परगमनासम्भवात् । तस्मादस्वरमिति क्रियया सह सम्बद्धस्य स्वरशब्देन समासो गमकत्वात् । स्वरा नैवमित्यादि । यस्मात् स्वरा नैवं परगमनभाजः मता न स्युः । खलु यस्मात् स्वरा इत्यस्य स्वयं राजन्ते इत्ययमर्थो निर्वचनं निश्चितमित्यर्थः । ततोऽन्वग् भवति व्यञ्जनमिति अन्वयः । अतः कादीनां परगमनं युक्तिसिद्धम् । सूत्रमिदं सुखार्थमिति भावः। अत एव ककारस्य व्यञ्जनसंज्ञा प्रति हेमकरण पूर्वोऽक्क इति यद् ज्ञापकं दर्शितं तद् दूषितमेव । नहि सज्ञैव परगमनकारणम्, किन्तु कादीनां स्वभाव एव ।।२१।
[समीक्षा
आचार्य शर्ववर्मा ने वर्णों तथा वर्णसमूह की संज्ञाएँ करने के बाद व्यञ्जन वर्गों की स्वाभाविक स्थिति के लिए एक परिभाषासूत्र बनाकर यह स्पष्ट किया है, कि स्वररहित व्यञ्जन परवर्ती वर्ण के साथ मिलता है। जैसे 'तद् गच्छति, षड् अत्र' आदि उदाहरणों में 'द्' वर्ण 'ग्' के साथ तथा 'ड्' वर्ण 'अ' स्वर के साथ मिलता है - "व्यञ्जनमस्वरं परं वर्ण नयेत्” (१११।२१)।
पाणिनि ने ऐसे विषयों में लोक को प्रमाण मानकर इनके लिए सूत्र नहीं बनाए हैं । वस्तुतः ककारादि व्यञ्जनों का परवर्ती वर्ण से मिलने का स्वभाव ही होता है, क्योंकि व्यञ्जन उसे ही कहते हैं जो पश्चाद्वर्ती हो । अतः तदर्थ सूत्र बनाने की कोई आवश्यकता प्रतीत नहीं होती, तथापि यहाँ सूत्र का बनाया जाना सुखार्थ ही समझना चाहिए या केवल स्वरूपाख्यानपरक ही मानना चाहिए । पश्चाद्वर्ती होने के कारण व्यञ्जन परतन्त्र होते हैं । अर्थात् इनके उच्चारणार्थ स्वरों की सहायता लेनी पड़ती है ।।२१।