________________
कातन्त्रष्याकरणम्
तिङन्त, उपसर्ग, निपात, गति तथा ६ प्रकार के - उक्त पाँच तथा कर्मप्रवचनीय नाम वाले पदों का भी उल्लेख प्राप्त होता है । वाक्यपदीय में कहा गया है - द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चधाऽपि वा ।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ ( ३|१|१) || २० | २१. व्यञ्जनमस्वरं परं वर्णं नयेत् (१।१।२१ )
१०८
[सूत्रार्थ]
व्यञ्जन को परवर्ती वर्ण से सम्बद्ध करना चाहिए, परवर्ती वर्ण के साथ मिला देना चाहिए, स्वर को नहीं || २१ |
[दु० बृ०]
व्यञ्जनं परं वर्णं नयेत्, न तु स्वरम् । व्यञ्जनमन्वक्, स्वरः स्वयं राजते हि । ' तद् गच्छति, षडत्र, क× खनति, कफलति' इति योगवाहत्वात् । स्वरूपमेतत् || २१ |
[दु० टी०]
व्यञ्जनम्० । नयतेर्द्विकर्मकत्वात् सर्वत्र द्वितीया । व्यञ्जनमस्वरमिति प्रधानं कर्म, परं वर्णमित्यप्रधानम्, कर्ता चात्र शिष्य इति । नयेदिति विधौ सप्तमी । विधिरज्ञातज्ञापनम् | प्रापणञ्चार्धमात्राकाललक्षणम् । ननु व्यञ्जनं परं वर्णं नयेदित्युक्ते स्वरस्य कः प्रसङ्गः, येनास्वरमिति प्रतिषिध्यते । व्यञ्जनमन्वक् । अन्वञ्चतीत्यन्वक् । स्वरः स्वयं राजते हि । हिशब्दो यस्मादर्थे । यस्मात् स्वरः स्वयं राजतेऽसहायोऽप्यर्थं प्रकाशयति, अतोऽनुयायी न भवति इति स्वरूपार्थमस्वरग्रहणम् | अपर आह - न विद्यते स्वरो यस्मात् सोऽस्वर इति जिह्वामूलीयोपध्मानीययोः परगमनं विसर्जनीयानुस्वारयोर्न भवति । भिन्नपदं तु वैचित्र्यार्थमिति अयुक्तमेतत् || २१ |
-
[वि० प० ]
व्यञ्जनं न तु स्वरमित्यादि । हिशब्दो यस्मादर्थे, यस्मात् स्वरः स्वयं राजते । असहायोऽप्यर्थं प्रतिपादयति, तस्मादनुयायी न भवति । व्यञ्जनं पुनरन्वक् । अनुगच्छति अनुयायी भवति । स्वातन्त्र्येणार्थप्रतिपादने सामर्थ्यविरहात् । तथा चोक्तम्व्यञ्जनान्यनुयायीनि स्वरा नैवं यतो मताः ।
अर्थः खलु निर्वचनं स्वयं राजन्त इति स्वराः ॥
-