________________
६२
कातन्त्रव्याकरणम्
न च सवर्णयोः पौर्वापर्यनैयत्याभावाद् दीर्घस्य ह्रस्वसंज्ञा कथं न स्यादिति वाच्यम् इत्युभयसंज्ञावैयर्थ्यादेकसंज्ञयैव व्यवहारसिद्धेः । वस्तुतस्तु अत्र तेषां ग्रहणानुवर्तनाभावात् तत्कृतक्रमाविवक्षाया निरस्तत्वाद् वर्णसमाम्नायस्य क्रमापेक्षयैव पूर्वत्वं बोध्यम् ॥ ५ ॥
[समीक्षा]
कोई भी स्वर न्यूनतः एकमात्रिक अवश्य होता है । इसी एकमात्रिक स्वर वर्ण की ह्रस्व संज्ञा की गई है। ह्रसति = अल्पीभवति दीर्घाद्यपेक्षया इति ह्रस्वः । अतः इसे अन्वर्थ माना जाता है । कलापव्याकरण में उसके वर्णसमाम्नाय के अनुसार सवर्णसंज्ञक दो-दो वर्णों (अ-आ, इ-ई, उ ऊ, ऋ ऋ, लृ-लु) में से पूर्व वर्ण (अ, इ, उ, ऋ, लृ ) की ह्रस्वसंज्ञा की गई है, जब कि पाणिनि का सूत्र है “ऊकालोऽज्झस्वदीर्घप्लुतः" (पा० १।२।२७) । अर्थात् एकमात्रिक वर्ण की ह्रस्वसंज्ञा होती है। इसके अनुसार शिक्षाशास्त्रीय वर्णोच्चारणसंबन्धी नियम जानने के बाद ही इस संज्ञा का ज्ञान हो सकता है |
पूर्वाचार्यों ने भी इस संज्ञा का प्रयोग किया है । यथा -
निरुक्त- अहिरयनादेत्यन्तरिक्षे । अयमपीतरोऽहिरेतस्मादेव निर्हसितोपसर्ग आहन्तीति (२।१७।१) । अयं हन्तेर्निर्हसितोपसर्ग आहन्तीति ( ६ । ११1१ ) । नि० भा० - “ आङ्पूर्वस्य हन्तेः स पुनरयमुपसर्गं निर्हस्य ह्रस्वं कृत्वा अहिरुच्यते” (२।१७।१) ।
-
काशकृत्स्नधातुव्याख्यान - ह्रस्वोऽभ्यासस्य, प्वादेर्हस्व : ( सू० ८०, ११३ ) । गोपपथब्राह्मण – ह्रस्वोदात्त एकाक्षर ओङ्कारोऽथर्ववेदे (१।१।२५) । ऋक्प्रातिशाख्य - ओजा ह्रस्वाः सप्तमान्ताः स्वराणाम् (१।१७ ) । वाजसनेयिप्रातिशाख्य - अमात्रस्वरो ह्रस्वः (१।५५) ।
तैत्तिरीयप्रातिशाख्य - ऋकारलृकारौ ह्रस्वौ, अकारश्च, तेन च समानकालस्वरः, अनुस्वारश्च (१।३१-३४)।
अथर्वप्रातिशाख्य - मतौ ह्रस्वः ( ३ | १ | ९ ) । ऋक्तन्त्र - अकालो हस्वः ( २ ।४।१० ) । इसके दो सूत्रों में हस्व के लिए एकदेश 'स्व' शब्द का भी प्रयोग किया गया है - " स्पर्शः स्वे, भे स्वे मान्तस्थी" ( २ | ३ |५; ४|१|१०)।
नाट्यशास्त्र
य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्रस्वस्तेषां परश्च दीर्घो विधातव्यः; एकमात्रं भवेद् ह्रस्वम् (१४।२०; १६ । १२३) ।
-