________________
७४
कातन्त्रव्याकरणम्
ननु यदि समुदायिन एव समुदाय इति स्वीकृतं तदा कथं येषामित्युपस्थाप्यानां परस्परभिन्नप्रवृत्तिनिमित्तानामैकारादीनामादिरवयव एकार इति परस्परानपेक्षत्वात्, नैवम्, बहुवचनोपपत्तौ तादृशी चिन्ता न सर्वत्र । ननु यदि समुदायिनः सकाशाद् भिन्न एव समुदाय इति मतम्, तदा किं स्यादित्याह - व्यतिरिक्त इति । समुदायिनः समुदायो भिन्न इति मतं नाश्रितमित्यर्थः । एकारौकारयोरित्यादि । ननु एदोतोः पूर्वभागोऽकारः परभाग इकार एवमुकारः सम्भवति, ऐदौतोः कथमिति चेत्, काऽत्र चिन्ता, इकारोकारयोः परयोरकारस्य स्थाने एदोतौ निष्पाद्य पश्चादकारसंबन्धे इकारोकारयोस्तत्परत्वं केन निवार्यताम्, पराकारापेक्षयानयोः परत्वे तत्पूर्वाकारं प्रति सुतरां परत्वात् ।
ननु तथा हि- इकारोकारयोर्लुप्तत्वात् कथं परत्वमिति चेत्, न । सन्धौ परत्वदृष्टत्वादिदानीमपि तथोच्यत इति न दोषः । न च 'परनिमित्तादेशः पूर्वस्मिन् स एव' (कलापव्या०, पृ० २२१) इति न्यायाद् एकारे ऐत्वं भविष्यतीति वाच्यम्, यतोऽनया परिभाषया व्यपदेशान्तरमेवारोप्य तेन तद्वर्णत्वम्, अत्र तु "यन्योकारस्य" (३।६।३६) इत्यत्र नकारकरणमेव ज्ञापकं वर्णयिष्यामः । वस्तुतस्तु अमीषामुच्चारणदशायां पूर्वभागोऽकारः परश्च भाग इकार इति सूक्ष्मतया उच्चरति स्वभावादित्यर्थः । तथा चैकस्य स्थानद्वयं निबद्धम् । ए ऐ कण्ठ्यतालव्यौ, ओ औ कण्ठ्योष्ठ्याविति दिक् ।।८।
[समीक्षा]
सन्धौ यानि अक्षराणि तानि सन्ध्यक्षराणि | स्वर वर्णों की अक्षर संज्ञा भी पूर्वाचार्यों ने की है । उनमें से पूर्ववर्ती अकार की इकार से सन्धि होने पर एकारऐकार, तथा उकार से सन्धि होने पर ओकार-औकार वर्ण निष्पन्न होते हैं। इस प्रकार दो स्वरवर्णों की सन्धि होने से निष्पन्न वर्गों की यह सन्ध्यक्षर संज्ञा अन्वर्थी है । अ+इ (गुण) = ए, अ+इ (वृद्धि) = ऐ, अ+उ = (गुण) = ओ, अ+उ (वृद्धि) = औ । यहाँ 'अ' आदि से अवर्णादि अभिप्रेत है।
पूर्वाचार्यों द्वारा प्रयुक्त होने के कारण यह संज्ञा प्राचीन भी है। जैसे ऋग्वेदप्रातिशाख्य में- “ततश्चत्वारि सन्ध्यक्षराणि उत्तराणि" (१।२)।
१. सन्ध्यानि सन्ध्यक्षराण्याहुरेके द्विस्थानतैतेषु तथोभयेषु (ऋ० प्रा० १३।३८)। सन्ध्यक्ष
राणीत्यन्वर्था पूर्वाचार्यसंज्ञा, सन्धीयमानावयवत्वात् (म० भा० प्र० -द्वि० आ०, पृ० ८०)।