Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 178
________________ पुरसहसमुखरितदिगन्तरेण सरभसोत्क्षेपचालितमणिवलयावलीवाचालितर्भुजलतेनोर्श्वीकृतैरुत्तानतलैः करपुटैरनिललैलितामाकाशकमलिनीमिव दर्शयता पर्यस्तमृदितकर्णपल्लवेन परस्पराङ्गदकोटिसंघट्टदष्टपाटितोत्तरीयांशुकेन श्रमजलधौताङ्गरागरञ्जितनॅवीनवाससा किंचिदवशिष्टतमालपत्रेण विलसद्वारविलासिनीहसितैरुन्निद्रकैरववनानुकारं प्रथयता सरभसवल्गनस्खलल्लोलहारलतास्फालितकुचस्थलेन सिन्दूरतिलकलुलितालकलेखेन विप्रकीणपिष्टार्तकपांसुपुञ्जपिञ्जप्रनृत्र्त्तकलमूककुब्जकिरातवामनबधिरजडजनपुरःसरेणोत्तरीयांशुकग्रीवाबद्धावकृष्टर्विडम्बितजरत्कञ्चुकिकै रितकेशपाशेन दम्बकेन वीणावेणुमुरजकांस्यताललयानुगतेन कल - मुत्सवमकारयत्कारयामासेति दूरेणान्वयः । कीदृशो राजा । अन्तःपुरिकाजनेनानुगम्यमानोऽनु पश्चात्तदनन्तरं गन्तुं योग्य इत्यर्थः । अथ चान्तःपुरिकाजनं विशेषयन्नाह - चरणेति । चरणानां पादानां प्रमोदातिरेकाद्य द्विकुट्टनमास्फालनं तेन क्वणितं शब्दितं यन्नूपुरसहस्त्रं पादकटकसहस्त्रं तेन मुखरितं वाचालितं दिगन्तरं दिङ्मध्यं येन स तेन । सरभसेति । सरभसेने वेगेन य उत्क्षेपो भुजानां चालन तेन चालिता कम्पिता या मणिवलयावली रत्नकङ्कणश्रेणी तया वाचालिता मुखरिता भुजलता बाहुलता यस्य सः तथा तेन । हर्षवशादूर्श्वीकृतैरुच्चैर्विहितैरुत्तानतलैः संमुखतलैः करपुटैर्हस्तपुटैरनिललुलितां वायुना विलुठितामाकाशकमलिनीं व्योमपद्मिनीमिव दर्श प्रकाशयता । पर्यस्तेति । पर्यस्ता विक्षिप्ता मृदिताश्चूर्णिताः कर्णपल्लवा येन स तथा तेन । परस्परेति । परस्परमन्योन्यमङ्गद वाहुवलयानां या कोटिरग्रभागस्तस्याः संघट्टोऽभिघातस्तेनेव दष्टमिव पाटितं छिन्नमुत्तरीयांशुकं यस्य स तेन । संघट्टवशाच्छ्रमजलेन धीतः क्षालितो योऽङ्गरागो विलेपनं तेन रञ्जितानि नवीनवासांसि नव्यवस्त्राणि यस्य स तेन । किंचिदिति । किंचित् अवशिष्टं उर्वरितं तमालपत्रं यस्य स तेन । इतरेषां भूषणानां वस्त्राणां च संमर्दवशान्निपतनमभूत् । तमालपत्रं तु महता क्लेशेन सौभाग्यमण्डननिमित्तकत्वाद्व्यवस्थापितमिति भावः । विलसन्त्यो या वारविलासिन्यो वारयोषितस्तासां हसितैर्हास्यैः । उन्निद्रेति । उन्निद्राणि विकसितानि यानि कैरववनानि तेषामनुकारं सादृश्यं प्रथयता विस्तारयता । सरभसेति । सरभसं सवेगं यद्वल्गनं परस्परमङ्गानामामोटनं तेन स्खलन्तीर्लोलाश्चपला या हारलता मुक्तालतास्ताभिरास्फालितमाहतं कुचस्थलं यस्य स तेन । सिन्दूरेति । सिन्दूरं नागजं तेन जनितं यत्तिलक पुण्ड्रं तत्र श्रमवशालुलिता लुठिता अलकलेखा यस्य स तेन । अत्र लेखाशब्देन ततिरुच्यते । तेन कियतामलकानां तत्रावस्थितिर्न सर्वेषामिति भावः । विप्रेति । विप्रकीर्णो विक्षिप्तो यः पिष्टात एव पिष्टातकः । स्वार्थे कः । पटवासकस्तस्य पांसुपुञ्जो धूलिसमूहस्तेन पिञ्जरितः पीतरक्ततां प्राप्तः केशपाशो यस्य स तेन । प्रनृत्तेति । प्रनृत्ताः स्वयमेवारब्धताण्डवाः, कला मनोज्ञाः, मूका अस्फुटवाचः, कुब्जाः पूर्वोक्तलक्षणाः; किराताः स्वल्पतनवः, वामनाः पूर्वव्याख्याताः, बधिरा अकर्णाः, जडा मूर्खाः, एवंविधा जनाः पुरःसरा अग्रगामिनो यस्य स तेन । उत्तरीयेति । उत्तरीयांशुकेन प्रच्छादनवस्त्रेण ग्रीवायां कन्धरायां बद्धं संयमितमवकृष्टमाकृष्टम एव विडम्बि विडम्बनां प्रापितं जरत्कञ्चुकिकदम्बकं येन स तेन । वीणेति । वीणा वल्लकी, I - टिप्प० - 1 सरभसं वेगेन इत्युचितम् । 2 संमुखतलानां हस्तानामुपरि उत्थापनात् आकाशकमलिनी (कमलपुष्पयुक्ता कमलिनी, वृक्षः) दर्शितेत्यर्थः । 3 संघट्टेन पूर्वं दष्टानि विद्धानि ततः पाटितानि उत्तरीयांशुकानि यस्य तेनेत्यर्थ उचितः । 4 तिलकम् । ' तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च' इति हैमः ! 5 स्खलन्त्य इत्यर्थः । 6 'प्रनृत्यविकल' इति केषाञ्चनाभिप्रेतः पाठः । 'विशेषनर्तनेन विह्वला मूकाः, इति तदर्थः । पाटा० - १ चलित; बलित. २ भुजवलयेन. ३ लुण्टिताम्. ४ आकाशगङ्गा. ५ चीन; स्वच्छचीन; चीर. ६ चलन. ७ लोलित. ८ पांसुपिञ्जरित ९ प्रणत्यविकल; प्रनृत्तकल: प्रवृत्तकल. १० विलम्वित ११ कदम्वेन. १२ अनुयातेन. (शुकनासपुत्रजन्मोत्सवः) पूर्वभागः । 165

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494