Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

Previous | Next

Page 412
________________ कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद । ससंभ्रम परिजनोपनीतायां च शयनशिरोभागनिवेशितायां धवलांशुकप्रच्छदपटायां हेमपादाङ्कितायां पीठिकायां चन्द्रापीडः समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरीचित्ताभिप्रायाः संवृतमुखन्यस्तहस्तदत्तशब्दनिवारणसंज्ञाः प्रतीहार्यो वेणुरवान्वीणाघोषान्गीतध्वनीन्मागधीजयशब्दांश्च सर्वतो निवारयांचक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्योत्तरीयांशुकेनापमृज्य पुनः पर्यङ्कमारुरोह, चन्द्रापीडस्यापि कादम्बर्याः सखी रूपानुरूपा जीवितनिविशेषा सर्वविश्रम्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि प्रक्षालितवती चरणौ । महाश्वेता तु कर्णाभरणप्रभावपिण्यपाङ्गदेशे सप्रेम पाणिना स्पृशन्ती, मधुकरभरपर्यस्तं च कर्णावतंसं समुत्क्षेपयन्ती, चामरपवनविधुतिपर्यस्तालकवल्लरीमनुष्वञ्जमाना कादम्बरीमनामयं पप्रच्छ । सा तु सखीप्रेम्णा गृहनिवासेन कृतापराधेवानामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । तदा समुपजातशोकापि च महाश्वेतामुखनिरीक्षण - *********** कादम्बरीति । कादम्बरी तु सविभ्रमं सविलासं कृतः प्रणामो यया सैवंविधा महाश्वेतया सह पर्यङ्के पल्यङ्के निषसादोपविवेश । ससंभ्रममिति । ससंभ्रमं यथा स्यात्तथा परिजनेन परिच्छदेनोपनीतायां प्रापितायां शयनस्य पल्यकस्य शिरोभागे निवेशितायां स्थापितायां धवलांशुकस्य प्रच्छदपट उत्तरपटो यस्यामेवंविधायां हेमपादाङ्कितायां सुवर्णपादचिह्नितायां पीठिकायां चन्द्रापीडः समुपाविशदासेदिवान् । महेति । महाश्वेताया अनुरोधेन प्रतिबन्धेन । विदितेति । विदितो ज्ञातः कादम्बयश्चित्ताभिप्रायो याभिस्ताः । संवृतेति । संवृतं पिहितं यन्मुखं तत्र न्यस्तो यो हस्तस्तेन दत्ता ज्ञापिताः शब्दनिवारणसंज्ञा याभिरेवंविधाः प्रतीहार्यो द्वाररक्षाविधायिन्यो वेणुरवान्वंशशब्दावीणाघोषान्वल्लकीशब्दान्गीतध्वनीन्गेयनादान्मागधीनां मागधपत्नीनां जयशब्दांश्च जयजयेति रवांश्च सर्वतो निवारयांचक्रुर्निवारितवत्यः । त्वरितेति । त्वरितं शीघ्रं परिजनोपनीतेन सलिलेन पानीयेन कादम्बरी स्वयमात्मनोत्थायोत्थानं कृत्वा महाश्वेतायाश्चरणौ पादौ प्रक्षाल्योत्तरीयांशुकेनोपरिवस्त्रेणापमृज्य मार्जनं कृत्वा पुनः पर्यङ्क पल्यङ्कमारुरोहोपविष्टवती । चन्द्रापीड़ेति । कादम्बर्याः सखी मदलेखेति नाम्नानिच्छतोऽप्यवाञ्छतोऽपि बलाच्चन्द्रापीडस्यापि चरणौ प्रक्षालितवती । सखीं विशेषयन्नाह - रूपेति । रूपेण सौन्दर्येण चानुरूपा सदृशी । जीवितान्निर्गतो विशेषो यस्याः सा जीवितनिर्विशेषा । सर्वेषां विश्रम्भाणां विश्वासानां भूमिः स्थानम् । महेति । महाश्वेता तु कादम्बरीमनामयं कुशलं पप्रच्छ प्रश्नं कृतवती । किं कुर्वन्ती । कर्णेति । कर्णाभरणस्य श्रवणभूषणस्य प्रभा कान्तिस्तस्या वर्षिणि । एवंभूतेऽपाङ्गदेशे नेत्रप्रान्तदेशे सप्रेम प्रेमसहितं यथा स्यात्तथा पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती । मधुकरेति । मधुकरभरेण भ्रमरभरेण पर्यस्तं पतितं च कर्णावतंसं समुत्क्षेपयन्त्युच्चभागे(न)नयन्ती चामरेति । चामरं वालव्यजनं तस्य पवनेन वातेन या विधुतिः कम्पनं तेन पर्यस्ता पतिता यालकवल्लरी केशवल्लरी तामनुष्यजमाना स्थाने तां स्थापयन्ती । सा त्विति । सा तु कादम्बरी सखीप्रेम्णा महता स्नेहेन गृहनिवासेन कृतापराधेवानामयेनैव कुशलप्रश्नेनैव लज्जमाना त्रपां कुर्वाणा कृच्छ्रादिव कुशलमाचचक्ष आचख्यौ । तदेति । तस्मिन्काले महाश्वेतादुःखेन समुपजातः शोको यस्या एवंविधापि कादम्बरी महाश्वेताया मुखं तस्य निरीक्षणं तस्मिंस्त - टिप्प० -1 सखीसमागमे न सख्या अपाङ्गदेशः स्पृश्यते, न च शक्यतेऽपि । कर्णकुण्डलप्रभाभिभूषिते 'अंसदेशे (स्कन्धभागे) स्पृशन्ती इति पाठः । 2 'अनुष्वजमाना' इत्युचितः पाठः । पाठा० - १ ससंभ्रमपरि. २ अंसदेशे. ३ उत्क्षिपन्ती. ४ विधुतिपर्यस्ता च. ५ समुपजातशोकापि च तस्मिन्काले. चन्द्रापीडदर्शने कादम्बर्या भावावेशः पूर्वभागः । 399

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494