Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
________________
समुन्नतैकभूलता मृत्युमार्गमिवालोकयन्ती दीर्घमुष्णं च निश्चसितवती । तद्दुःखकारणमुत्प्रेक्षमाणया च कथनाय पुनःपुनरनुबध्यमाना मया व्रीडया नखमुखविलिखितकेतकीदलानि लिखित्वेव वक्तव्यमर्पयन्ती विवक्षास्फुरिताधरा निवासमधुकरानिवोपांशु संदिशन्ती क्षितितलनिहितनिश्चलनयना सुचिरमतिष्ठत् ।
क्रमेण च भूयो मन्मुखे निधाय दृष्टिं पुनःपुनर्रथापूर्यमाणलोचनच्युतैर्मदनानलधूमधूसरां वाचमिव क्षालयन्ती बाष्पजलबिन्दुभिः, बाष्पजलबिन्दुव्याजेन च विलक्षस्मितस्फुरितैर्दशनांशुभिः साध्वसविस्मृतानपूर्वानभिधेयवर्णानिव ग्रथ्नती कथमपि व्याहाराभिमुखमात्मानमकरोत् । अब्रवीच्च माम् - 'पत्रलेखे, वल्लभतया तस्मिन्स्थाने न तातो नाम्बा न महाश्वेता न मदलेखा न जीवितम्, यत्र मे भवती दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्य वान्यस्य -
***********
समुन्नतैका भ्रूलता यया सैवंविधा मृत्युमार्गमिवालोकयन्ती पश्यन्ती दीर्घ लम्बायमानमुष्णं तप्तं न निश्वसितवती निश्वास मुक्तवती । तस्य विश्वासमोचनस्य दुःखस्य कारणं नियामकमुत्प्रेक्षमाणया ज्ञातुमिच्छया मया कथनाय पुनःपुनरनुबध्यमाना वीडया लज्जया नखमुखेन नखराग्रेण विलिखितानि केतकीदलानि । अक्षरसाम्येनाह - लिखित्वेव वक्तव्यमभिधेयमर्पयन्ती । वक्तुमिच्छा विवक्षा तया स्फुरितावधरौ यस्याः सा । अधरकम्पमिषादुत्प्रेक्षते - निश्वासेति । निश्वासमधुकरानुपांशु रहसि संदिशन्तीव कथयन्तीव क्षितितले निहिते स्थापिते निश्चले नयने यया सा सुचिरं चिरकालं यावदतिष्ठत्स्थिता ।
क्रमेण परिपाट्या भूयो मन्मुखे दृष्टिं निधाय स्थापयित्वा पुनःपुनरिवारम् । अथेत्यानन्तर्ये । आपूर्यमाणे लोचने ताभ्यां च्युतैर्गलितैबर्बाष्पजलबिन्दुभिर्मदनानलस्य यो धूमस्तद्वंद्धूसरां मलिनां वाचं वाचालतां क्षालयन्तीव । बाष्पेति । बाष्पजलबिन्दुव्याजेन विलक्षमभिनवं यत्स्मितं तेन स्फुरितैर्दीपितैर्दशनांशुभिर्दन्तमयूखैः साध्वसेन भयेन विस्मृतानपूर्वानभिधेयवर्णान्याच्याक्षरान्ग्रथ्नतीव । अत्र बाष्पबिन्दूनां वर्तुलतयाक्षरसाम्यं दशनांशूनां वितततया गुणसाम्येन ग्रन्थनमित्यर्थः । कथमपि महता कष्टेन व्याहाराभिमुखं भाषिताभिमुखमात्मानमकरोदन्वतिष्ठत् । मां प्रत्यब्रवीच्चावादीत् । हे पत्रलेखे, वल्लभस्य भावो वल्लभता तया तस्मिन्स्थाने न तातो न पिता, नाम्बा माता, न महाश्वेता न मदलेखा, न जीवितम् । यत्र स्थाने मे मम भवती दर्शनात्प्रभृत्यवलोकनादारभ्य प्रिया वल्लभासि । अहं न जाने नाकलयामि केनापि कारणेन हेतुनापहस्तितो दूरीकृतः सकलः समग्रः सखीजनो येनैवं मे मम हृदयं चेतस्त्वयि विषये विश्वसिति विश्वासं करोति । अपरं कमन्यं कमुपालभे । उपलाम्भं ददामीत्यर्थः । अ - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 स्वबुद्ध्या संभावयन्त्या (मया) इत्यर्थ उचितः । 2 यया सा, इति मन्ये स्यात् । 'नखमुखविलिखितकेतकीदला' इत्युचितः पाठः । नखमुखेन केतकीदलं तया लज्जास्वभावात्संघृष्टम्, तत्र कविरुत्प्रेक्षते स्ववक्तव्यं लिखित्वा अर्पयन्तीव । एवमधरस्फुरणेपि । 3 पुनः पुनरप्यापूर्यमाणेत्येव पाठः । 4 मदनानलधूमेन धूसरां मलिनाम् अस्पष्टा मित्येवार्थः । न हि वाणी मूर्ता यत्र मालिन्येनोपमा स्यात् । 5 विलक्षस्मितेन सलज्ज - मन्दहास्येनेत्यर्थः ।
पाठा० - १ मृत्युपाशमिवावलोकयन्ती. २ ततो दुःखकारणम् तदुःखम्. ३ केतकीदला. ४ अप्यापूर्यमाण. ५ लक्षः. ६ पूर्वाम्. ७ तस्मिन्स्थाने.
472
कादम्बरी।
कथायाम्
Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494